पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 अद्वैतसिद्धिव्याख्यायां गुरुचान्द्रकायां [प्रथमः दात्म्ये कुप्तत्वात् । यद्वा घटादौ रूपादेः प्रतियोगितारूपादौ घटा- देरनुयाोगतासम्बन्धः घटम्य रूपमिति प्रतीतेः घटादौ तदभावस्य तदभावे च घटादे: वृत्तिनियामकयोस्तयोः कुप्तत्वात् । संयोगवदेकत्र वृत्तिनियामकस्याप्यपरत्र तत्त्वसम्भवात् यद्वा घटरूपाद्योरिव घटा- दितदभावयोरपि तन्निष्ठभेद एव सम्बन्धः सम्बन्धत्वेन कुप्तत्वा- 4 दिति दिक् || • “गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति इत्यादेस्तु नामान्तराविशेषणं शुक्लादिपदं पुंसि, नामान्तरविशेषणं तु तत्समानलिङ्गमित्यादिरर्थः यथाश्रुतार्थत्वे शुक्लं रूपमित्यादेरसा- धुत्वापत्तेः । अत एवाधारत्वानियामकोपि गगनादिसंयोगवदभेदान्य- एव सम्बन्धोस्त्वित्यपि निरस्तम् । आधारत्वानियामकत्वाविशेषेऽपि क्रिया- जन्यत्वादिना संयोगत्वस्येव भेदर्धाप्रतिबन्धकषीविषयत्वेन अभेद- त्वस्य सिद्धेः । अथैवमपि भेदांशसिद्धौ कस्तर्कः ? उच्यते-भेदं विना न सम्बन्धः घटो घट इति विशिष्टानुभवस्य लोकानामभावात् । न च घटो घटवानिति लोकैरनुभवात्संसर्गप्रतियोग्य नुयोगिनोः तथ्यक्ति- त्वाभ्यामेव भेदोपेक्षित इति प्रतियोग्यनुयोगितावच्छेदकान्तर्भावेन भेदसिद्धौ न तर्क इति वाच्यम् ; घटो द्रव्यमित्यादौ तब्यक्तित्वा- भ्यामपि प्रतियोग्यनुयोगिनोः भेदाभावेन घटो घटवानित्यादिस्थ- लेऽपि भिन्नरूपेणैव लोके संसर्गप्रतियोग्यनुयोगितयोः स्वीकारात् । प्रतियोग्यनुयोगितावच्छेदकरूपाभ्यां भेदामहे संसर्गाग्रहात् भेदभ्रमे संसर्गभ्रमाच्च भेदज्ञानस्य संसर्गज्ञानकारणत्वे आवश्यके घटो द्रव्य- मित्यादौ कारणीभूतभेदज्ञानस्य अमत्वे तत्प्रयोजकानन्तदोषकल्पना- पेक्षया प्रमात्वकल्पनस्यैव युक्तत्वात् । प्रमात्वा कल्पनेऽपि सिद्धान्ते प्रातिभासि कभेद सिद्धेरनपायात् । नचैवं सिद्धान्ते घटो घट इत्यादि- धीरपि स्यात् प्रातीतिकमेदसम्भवादिति वाच्यं तत्र भेदाकारवृत्तेः