परिच्छेदः] प्रपञ्चमिथ्यात्वनिरूपणम् 29 ज्ञानस्य तत्पूर्वमभावनियमेन तत्र नलिगुणभेदप्रकारकत्व सम्भवन तद्रूपणैव प्रतिबन्धकत्वं कल्प्यत इति लाघवम् । मित्यादरप्युक्तप्रकारकत्वेन तादृशानु- नीलाभिन्नप्रतियोगिकभेदव्याप्यपरामर्शादि- + कार्यत्वसम्भवात् । किंच गुणगुण्याद्योः समवायस्वीकारे तदन्त- र्भावेणापि ज्ञानयोः प्रतिबध्यप्रतिबन्धकत्वं कल्प्यमिति ते गौरवम् । तादात्म्यान्तर्भावेण तु तत्तवापि कॢप्तम् । एवं नीलगुणादिकं प्रति तब्यधिकरण तद्भेदत्वेन मे हेतुत्वम् तब तु समवायावच्छिन्ननीला- दिप्रतियोगिताकतादृश।त्यन्ताभावत्वेनेति गौरवम् । घटो रूपमित्या- दिकं तु लोकैरनुभूयत एव । पढे रूपमित्यादिकं तु काणादादि- मतवासनाविलासः । उक्तं हि भामत्यां 'उभयथा च दोषात्' इति सूत्रे 'अनुभूयते हि पृथिव्यादिकं गन्धाधात्मकं लोकैः' इति । पुराणवचनान्यपि -- · आकाशं शब्दमात्रं तत्स्पर्शमात्रं समाविशेत् । द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मनो भवेत् || इत्यादीनि । एवमनुभवागमसिद्धं गुणगुण्याद्योभिन्नत्वं वैशोषकरैश- क्यापह्नवमिति । मास्तां वा रूपत्वघटत्वादिभ्यां आत्मत्वदेहत्वाभ्यां इति वा भेदः । किन्तु भेदस्स एव च घटो रूपवानित्यादिबुद्धौ स- म्बन्धः, घटत्वपटत्वादिभ्यां भेदस्तु घटपटयोर्न सम्बन्धः अबाधित प्रत्ययाभावात् । अथवा रूपत्वघटत्वादिभ्यां तादात्म्यस्य वृत्तिनि- यामकत्वस्वीकारात् तदवच्छिन्नाकारतैव उक्तबुद्धौ सम्बन्धः, न तु तदेव घटो न रूपमिति बुद्धौ तस्याः प्रतिबन्धकतापत्तेः । नचा- तिरिक्ताधारताकल्पने गौरवमिति वाच्यम्, समवायपक्षेऽपि तदाव- श्यकत्वात् । समवायस्यैवाधारता रूपत्वे तु रूपं घटवदिति बुद्ध्या- पत्तेः; तत्र च तादात्म्याख्यसम्बन्धे समवायत्व रूपोऽखण्डधर्मो न कल्प्यते कुत्राध्यकुप्तत्वात्, किन्तु तादात्म्यत्वरूपः द्रव्यषटाथोस्ता- ,
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९
दिखावट