पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां प्रमात्वं च बाधाभावात् सिद्धम् । संयोगेन घटवतो भिन्नं भूतल मित्यादिघीप्रतिबन्धकप्रमाविषये भूतलादौ घटाद्यभेदाभावात् असंस- गन्तं यद्धर्मावशिष्टे यद्धर्मविशिष्टसंयोगाद्यविषयार्थकम् । न च नीला- दिविशिष्टप्रतियोगिकभेदप्रकारकघटादिवशेष्यकज्ञानं प्रति प्रमायाः प्रतिबन्धकत्वस्य घटादौ नीलादिगुणविशिष्टप्रतियोगिताकाभेदविष- यत्वावच्छिन्नत्वेनोक्तप्रतिबन्धकत्वे उक्ता'भेदसिद्धेरुपपादकत्वेऽपि न घटादौ नीलादिगुणाभेदसिद्धिस्तथेति अप्रयोजकत्वमिति वाच्यम् ; गुणगुण्याद्योरभेदान्यसम्बन्धासिद्धया अभेदसम्बन्धेन गुणादिविशिष्ट प्रतियोगिकगुण्यादिनिष्ठाभेदस्योक्तप्रतिबन्धकत्वोपपादकत्वात् । आधा- राधेयत्वस्य लोकैरननुभवात् । न ह्यस्ति धीर्घटे नीलः कपाले घट इति । अपितु घटो नीलः कपालं घट इत्यादि । अतएवेहेति प्रत्ययहेतुः समवायस्तयोः सम्बन्ध इति कणादादिमतमनुभवावरो- धात् हेयम् । किंच घटो न नील इत्यादिज्ञानं प्रति घटविशेष्य- तानिरूपिता भेद संसर्गतानिरूपित नीलादिगुणप्रकारतांकत्वेन प्रतिबन्धकत्वं मया वाच्यम् । नीलो घट इति धियो नीलगुणघटाभेदविषयकत्वस्य मयाऽङ्गीकारात् । नीलादिगुण विशिष्टनिष्ठोक्तप्रकारताकत्वेन तु त्वया वाच्यमिति ते गौरवम् । अथ ममापि समवायेन नीलादिप्रकारतानिरू- मितघटादिविशेष्यताकत्वेन तदिति चेतर्हि व्यर्थमभेदान्यनामकरणम् । यत्र याद्वशिष्टभेदज्ञानं प्रति यत्सम्बन्धेन त्वदभिमतसमवायान्यसं- योगाद्यविषयिका तयोर्विशिष्टप्रमाप्रतिबन्धिका स एव हि तयो- रभेदः घटो द्रव्यमित्यादिप्रमायां त्वयाऽपि तथाऽङ्गीकारात् । एवंच घटो न नील इत्यादिज्ञाने नीलगुणविशिष्टप्रतियोगिकभेदस्य त्वद्रीत्या विषयत्वेऽपि तत्र नीलगुणाभिन्न प्रतियोगिकभेदत्वेनैव विषयत्वं स्वीकि यते । तथा सति हि तज्ज्ञानं यत्रोक्तमेदप्रकारकं तत्र नीलगुणाभेद- ! उक्त, . [ प्रथमः