पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रपञ्चमिथ्यात्व निरूपणम् 27 गुण्यादिना भिन्नाभिन्नं समानाधिकृतत्वात्" इति भेदाभे- त्वात् गुणादौ गुण्यादिभेदधीप्रतिबन्धकप्रमाविषयत्वात् । तथाच यो यद्विशिष्टप्रतियोगिक भेदधीप्रतिबन्धकप्रमाविषयः सः तद्भेदाभे- दवानिति व्याप्तिः । निष्कर्षस्तु – यो धर्मो यद्धर्मवदवच्छिन्नम- तियोगिताकभेदप्रकारतानिरूपित स्वावच्छिन्नविशेष्यता कज्ञानत्वा वच्छिन्न- स प्रतिबध्यतानिरूपितप्रतिबन्धकतावत्संयोगाद्यसंसर्गकप्रमादिविषयः तद्धर्मावच्छिन्नप्रतियोगिताकभेदाभेदानुयोगितावच्छेदकताद्वयवानिति सा- मान्यतो व्याप्तौ घटत्वादिमदवच्छिन्न प्रतियोगिताकभेदप्रकारतानिरू- पितस्वावच्छिन्नविशेष्यता कज्ञानत्वावच्छिन्न प्रतिबध्यतानिरूपितप्रतिबन्ध- कताश्रयप्रमाविषयो द्रव्यत्वादिः । यथा घटत्वाद्यवच्छिन्नप्रतियोगिता- कभेदाभेदोभयानुयोगितावच्छेदक इति दृष्टान्तः । द्रव्यं घटाभिन्नं नेत्याद्या कारक घटत्वादिमदवच्छिन्न प्रतियोगिता कभेदप्रकारतानिरूपि- तद्रव्यत्वाद्यवच्छिन्नविशेष्यताकभ्रमं प्रति प्रतिबन्धिकायां द्रव्यं घट इत्यादिप्रमायां द्रव्यत्वादेविषयत्वात् घटो न घटामिन्न इत्या- विज्ञानस्य आहार्यत्वेन अप्रतिबध्यत्वात् स्वपदयद्धर्मपदाभ्यां घट- त्वादेरेकस्य धर्तुमशक्यत्वात् द्रव्यत्वादेरिव स्वपदेन घटत्वादेरेव यद्ध- र्मपदेन धारण तेन घटत्वादेः स्वावच्छिन्नप्रतियोगिताकभेदाभेदोभया- नुयोगितावच्छेदकत्वाभावेऽपि न व्यभिचारः । न च द्रव्यत्वावच्छिन्ने घटत्वावच्छिन्नभेदोऽसिद्ध इति वाच्यम् ; विशिष्टकेवलयोः भेदवा· दिना तार्किकादिना केवलघटे द्रव्यत्वविशिष्टघटत्वादिना भेदस्वीका- रात्, विशिष्टघटो घट इत्यादिप्रतीतरभेदस्वीकाराच्च, विशिष्टघटकेव लयोः भेदास्वकारे संयोगविशेषवतो भेदाभेद योवृक्षादों तार्किका- दिभिस्वीकारेण तत्रैव दृष्टान्तत्वसम्भवाच्च । भेदधीप्रतिबन्धका- भेदश्रमविपययोः घटपटयोरभेदाभावात्प्रमेति स्वविशेषणीभूतयाव- दंशे भ्रमभिन्नार्थकम् । तेनोक्तभ्रमस्य घटत्वाद्यंशे प्रमात्वेऽपि न दोषः ।