पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथम त्वेन अमिथ्यात्वोपपत्त्या अर्थान्तरमुक्तम्, तन्न; एकेनैव सर्वा- नुगतेन सर्वत्र सत्प्रतीत्युपपत्तो ब्रह्मवत् प्रपञ्चस्य प्रत्येकं सत्स्व - भावताकल्पने मानाभावात्, अनुगतव्यवहाराभावप्रसङ्गाच्च । सत्प्रतियोगिकासत्प्रतियोगिकभेदद्वयं वा साध्यम । तथाचो- भयात्मकत्वे अन्यतरात्मकत्वे वा तादृगभेदासम्भवेन ताभ्या- मर्थान्तरानवकाशः । न च असत्त्वव्यतिरेकांशस्यासद्भेदस्य च प्रपञ्चे सिद्धत्वेनांशतः सिद्धसाधनमिति वाच्यम्; "गुणादिकं सत्स्वभावता सच्छब्देनाभिलप्यमानधीविषयता । अनुगतव्यवहारेति । ननु सदाकारबुद्धौ सत्ता द्रव्यत्वं मूर्तत्वं वा जातिर्विषयः । गुणादौ तम्या- स्सामानाधिकरण्यादिः सम्बन्धः । त्वन्मतेऽपि हि सत्म्वरूपस्य नैकं तादात्म्यं समवायैकत्वदूषणात् । न च तादात्म्यत्वेनानुगतो मे सम्बन्ध इति वाच्यम्; तादात्म्यं सदित्यत्र तदसम्भवात् । एकरूपेण सम्ब- न्धत्वानुयोगित्वयोः असम्भवादिति चेन्न; समवायस्सन्नित्यादौ तवेव ममापि तत्र तत्सम्भवात् । तत्र विभिन्नरूपेण त्वया तयोरङ्गीकारे ममापि सदाकारप्रनीतेः सम्बन्धांशेऽप्यनुगताकारत्वाय तादात्म्यत्व- रूपेण सम्बन्धेऽपि तदतिरिक्तरूपेणानुयोगित्वसम्भवात् । एकरू पेण सम्बन्धं प्रत्यनुयोगित्वप्रतियोगित्वयोरेव मया अनङ्गीकारात् । तादात्म्यत्वेनैव मम अनुयोगित्वसम्भवाच्च । अतएव सद्ब्रह्मेत्येव मे व्यवहारः, न तु सत्सादति । अथवा सत्म्वरूपप्रतियोगिकं तादात्म्यमेव सत्तास्वरूपसंम्बन्धेन सदाकारधीविषयः, तादात्म्यं सदित्यत्रापि केवलेोपहिततादात्म्ययोः म्वरूपं सम्बन्धः तादात्म्ये तादात्म्यान्तरास्वीकारात् । तादात्म्याभिन्नयोरेव केवलोपहितयोः तादा- त्म्यस्वीकारात् । अतस्सदाकारबुद्धौ नानुगतसम्बन्धहानिः । सत्ता सतीति तु न मे व्यवहारः । गुणादिकमित्यादि । समानाधिकृत-