पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रपञ्चमिथ्यात्वनिरूपणम् धनात् । न द्वितीयः; सत्त्वासान्त्वयोरेकाभावे अपरसत्वावश्य- कत्वेन व्याघातात् निर्धर्मकब्रह्मवत् सत्त्वास त्वराहित्येपि सद्- पत्वेन अमिथ्यात्वोपपत्या अर्थान्तराच्च, शुक्तिरूप्ये अबाध्य - त्वरूपसन्वव्यतिरेकस्य सत्वेन बाध्यत्वरूपासत्त्वस्य व्यति- रेकासिद्धया साध्यवैकल्याच्च । अतएव न तृतीयः; पूर्ववत् व्याघातात् अर्थान्तरात् साध्यवैकल्याच्च इति चेत्, मैवम् । सत्वात्यन्ताभावासत्त्वात्यन्ताभावरूपधर्मद्वयाविवक्षायां दोषाभा- वात् । न च व्याहतिः । सा हि सत्त्वासत्त्वयोः परस्परविर- हरूपतया वा, परस्परावरहव्यापकतया वा, परस्परविरहव्याप्य- तया वा । तत्र नाद्यः; तदनङ्गीकारात् । तथाह्यत्र त्रिकाला- बाध्यत्वरूपसत्त्वव्यतिरेको नासत्वम्, किन्तु क्वचिदप्युपाधौ सत्वेन प्रतीयमानत्वानधिकरणत्वम्, तव्यतिरेकच साध्यत्वेन विवक्षितः । तथाच त्रिकालबाध्यविलक्षणत्वे सति क्वचिदप्यु - पाधौ सत्वेन प्रतीयमानत्वरूपं साध्यं पर्यवसितम् । एवंच सति न शुक्तिरूप्ये साध्यवैकल्यमपि, बाध्यत्वरूपासत्त्वव्यतिरे- कस्य साध्याप्रवेशात् । नापि व्याघातः परस्परविरहरूपत्वा- ! भावात् । अतएव न द्वितीयोऽपि ; सत्त्वाभाववति शुक्तिरूप्ये विवक्षितासत्त्वव्यतिरेकस्य विद्यमानत्वेन व्यभिचारात् । नापि तृतीयः; तस्य व्याघाताप्रयोजकत्वात् गोत्वाश्वत्वयोः परस्पर- विरहव्याप्यत्वेऽपि तदभावयोरुष्ट्रादावेकत्र सहोपलम्भात् । यच्च निर्धर्मकस्य ब्रह्मणः सवराहित्येऽपि सद्रपवत्प्रपञ्चस्य सद्रूप 25 रणापराभावत्वेन, विकल्पाः । अतश्शब्दार्थं विवृणोति पूर्ववदिति । नाद्यः इत्यादिना परस्परविरहरूपत्वमात्रं निषिध्यते । तेनैव हेतुना व्याघाताभावमाह नापि व्याघात इत्यादि । -