पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां प्रयोगेष्वपि विमतमिति पदं विप्रतिपत्तिविषयतावच्छेदकाव- च्छिन्नाभिप्रायेणेत्यदोषः । ननु किमिदं मिथ्यात्वं साध्यते, “न तावत् मिथ्याशब्दोऽनिर्वचनीयतावचनः" इति पञ्च- पादिकावचनात् सदसदनधिकरणत्वरूपमनिर्वाच्यत्वम् । तद्धि किं असत्वविशिष्ट सत्त्वाभावः, उत सत्त्वात्यन्ताभावासत्त्वात्यन्ता- भावरूपं धर्मद्वयम्, आहोस्वित् सत्त्वात्यन्ताभाववत्त्वे सति असत्त्वात्यन्ताभावरूपं विशिष्टम् | नाद्यः; सत्त्वमात्राधारे जग- त्यसत्त्वविशिष्टसत्त्वानभ्युपगमात् विशिष्टाभावसाधने सिद्धसा- 24 [प्रथमः नत्वेन विधेयावगाहनस्यौत्सर्गिकस्य भङ्गापत्तेः, अतएव न संशय- विषयत्वरूपा विमतिः तथा, किन्तूक्तविमतिप्रकार कधीवी शेष्यतेति, तत्तुच्छम् । स्वरूपयोग्यत्वेनास्मन्मूलोक्तविप्रतिपत्तिर्हि न वाक्यम् । तस्य अतत्त्वात्, किन्तु तद्धीः, साच विमतिधिया तुल्या, व्यापा- रानुबान्धतद्विशेष्यतायाः प्रपञ्चे सत्त्वेन पक्षतावच्छेदकत्वसम्भवात् । औत्सर्गिकं च सति बाघे व्याहतमेव । अन्यथा तदौत्सर्गिकमेव न स्यात् । किंचास्माकं समयबन्धादिवत् विप्रतिपत्तेरावश्यकत्वात् परामर्शकाले वाक्यस्मृतिरूपविप्रतिपत्तेरप्यावश्यकत्वात् पक्षतावच्छे- दकत्वसम्भवः । तव तु संशयधीः कुतः कथंचित्तत्सामग्रीकल्पने विप्रतिपत्तिसामग्री कुतो न कल्प्यते । अस्मदुक्तदूषणेन ग्रस्ता ते विमतिधीरपि, धीमात्रशून्यप्रलयावच्छेदेन मिथ्यात्वादिसिद्ध्यापत्तेः । अदोष इति । विप्रतिपत्तिमात्रस्य पक्षतावच्छेदकत्वे ब्रह्मतुच्छयोः बाघासिद्धी । घटादियत्किञ्चिद्विशेष्यकविप्रतिपत्तेः पक्षतावच्छेदकत्वे सर्वप्रपञ्चमिथ्यात्वासिद्धिरिति दोषाः नेत्यर्थः । किमसत्वेत्यादि । विशिष्टप्रतियोगिकाभावत्वेन, अभावद्वयत्वेन एकाभावसमानाधिक- 1 भावत्वे.