पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] पक्षतावच्छेदकाबिचारः 23 लघुभूतया पक्षतावच्छेदो न विरुद्धः । समयबन्धादिना व्यवधा- नात् तस्यानुमानकालासस्वेपि उपलक्षणतया पक्षतावच्छेदकत्वम् । यद्वा विप्रतिपत्तिविषयतावच्छेदकमेव पक्षतावच्छेदकम् । प्राचां 1 विशेषण नियतया स्वेतरस्मायावर्तितया । ननु विशिष्टार्थ विशेषधीजन- कत्वेन विप्रतिपत्तर्निवेशे विशिष्टघटकविशेष्यतावच्छेदकरूपेणैव पक्षता अस्तु लाघवात् तत्राह – लघुभूतयेति । तथ्यक्तित्वरूपलघुरूपावच्छि. `न्नयेत्यर्थः । तथाच तथ्यक्तित्वेनैव निवेश्याया विप्रतिपत्ते रुक्तधी- जनकत्वं परिचायकमिति भावः । यत्तु धर्मविशेषे ग्रहाधीनग्रहापि विप्रतिपत्तिः पक्षतावच्छेदिका, न तु धर्मविशेष:, लघुपक्षहेतुघटि- तपरामर्शादिरूपप्रमाणस्वरूपलाघवात् । अतएव सावयवत्वं क्षितेः सकर्तृकत्वं प्रति न हेतु:, किन्तु तेनानुमितं कार्यत्वमिति, तन्न; प्रथमोपस्थितत्यलाघवस्य धर्मिविशेषे सत्त्वात् । द्रव्यसमवेतद्रव्य- त्वरूपे सावयवत्वे तत्सत्वेऽपि गुरुधर्मो न हेतुतावच्छेदक इति मते तत्र हेतुत्वानङ्गीकारात् । अतएव धर्मविशेष एव पक्षतावच्छे- दक इति मूले वक्ष्यते । नन्वनुमितिकाले सतः पक्षतावच्छेदकस्य समकालत्वं साध्ये भातीति पक्षतावच्छेदककालावच्छिन्नस्यैव साध्य- स्य सिद्धया अर्थान्तरम् । न चानुमानकालासत्या एव व्यक्तेः तद्व्य- क्तित्वेन पक्षतावच्छेदकत्वात्, साध्ये उक्तकालावच्छिन्नत्वस्य बाध काले भानासम्भवाच्च न दोष इति वाच्यम्; तद्व्यक्तित्वाश्रयपरि- चायकं यद्धर्मवद्विशेषकत्वं वाच्यं तस्यैव पक्षतावच्छेदकत्वौचित्यात् । साध्यं न तद्व्यक्तिकालावच्छिन्नमित्यादिबाधाभावे अर्थान्तरानुद्धाराचे- त्यत आह -- यद्वेति । यत्तु विप्रतिपत्तिर्न पक्षतावच्छेदिका अनुमान- काले असत्या विशेषणत्वासम्भवेन विशेष्यतावच्छेदककालावाच्छ- 1पा. बोधविशेषेण,