पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः नात्रावयवेष्वाग्रहः । अत्र स्वनियामकनियतया विप्रतिपस्या कल्परूपवृत्तिस्वकारेऽपि चित्सम्बन्धासम्भवात् । ननु सन्निष्ठया सद्भिन्ननिष्ठया च प्रतियोगितया सम्बन्धेन तादात्म्यं प्रत्याश्रयत्वेन तदवच्छेदकत्वेन च सम्बन्धेन अविद्यायाः कारणत्वात्, लौहित्या- दिप्रतियोगिकतादात्म्ये च जपादिसन्निधानस्य विशिष्य कारणत्वात्, प्रतियोगितासम्बन्धेन सति इदमादौ लौहित्यादावेवास्तु तादात्म्यं न तुच्छेऽवच्छेदकतासम्बन्धेन तु स्यात् । तेन सम्बन्धेन तत्प्रति स्वप्रतियोगितावच्छेद कावच्छिन्नभेदस्य कारणत्वात् । अन्यथा रजता. द्यवच्छेदेनेव स्वावच्छेदेनापीदमादितादात्म्यमुत्पद्येत, तस्य तुच्छेऽपि सत्त्वादिति चेन्न तुच्छे निर्धर्मकत्वेन उक्तभेदस्याप्यसत्त्वात् । तादा म्यान्यस्वकार्यनिष्ठेन विषयत्वसम्बन्धन अविद्याया एव तत्र हेतु त्यात् । अन्यथा स्वपरिणाम्यविद्या परिणामाभन्नेऽपि तादात्म्योत्पत्त्या. पत्तेः रजतादौ तदुत्पत्तिपूर्वमपि उक्तविषयतासम्बन्धेन अविद्यायाः सम्भवात् तदुत्पत्तिकाले तादात्म्योत्पत्तिः । तादात्म्येऽपि तादात्म्या- न्तरोत्पत्तिवारणाय स्वकार्यस्य तादात्म्यान्यत्वं विशेषणम् । यद्यपि तुच्छस्य सत्तादात्म्यावच्छेदकत्वेऽपि प्रकृते न दोषः । स्वरूपस- म्बन्धेन सत्तादात्म्यवत्त्वस्यैवान्तार्थत्वात् । अवच्छेदकतया तद्व त्त्वोक्तौ चितः सत्तादात्म्यानवच्छेदकत्वेन अर्हांतेनैव वारणात् । चिद्धि- न्नमित्यस्य वैयर्थ्यापातात् । स्वरूपसम्बन्धेन सत्तादात्म्यवत्त्वं च सदाकारधीविषयेषु वर्तते, न तुच्छे, तथापि वस्तुस्थितिरेवोक्ता । अत एवोक्तं निश्चितसाध्याभावेत्यायुक्तं प्राचीननैयायिकैः । नवी- नैस्तु दधित्यादौ यद्यपि शक्त्यादिसाधकानुमाने पक्षीयव्याभिचा- रसंशयोप्यनुकूलतकभावे दोषत्वेनोक्त; तथापि प्रकृते अनुकूल- ताणां वक्ष्यमाणत्वान्न दोष इति भावः । स्वनियामकनिय- तयेति — स्वं विप्रतिपत्ति:, नियामिका जानका यस्य – तेन 22