पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] पक्षतावच्छेदकविचारः , ज्ञानमिथ्यात्वावगाहनेऽपि इदंविषयकत्वविशिष्टज्ञानमिथ्यत्वावगाहनेऽपि बाघकाभावात् । शुक्तयवच्छिन्नाचद्विषयका ज्ञानाधारतावच्छेदकत्वस्य व्यावहारिकेदमादाविव तदाकारमनोवृत्तावपि सत्त्वात् शुक्तित्वे इदमादिना तादात्म्यतद्धर्मयोरिवोक्तवृत्तितादात्म्यतद्धर्मयोरारोपौचित्याच्च । न च विशिष्टविषयकत्वस्य उक्तवृत्तावसत्त्वेऽपि शुक्तित्वाद्युपहितविष- यकत्वस्य सत्त्वात् तादृशविशेषविशिष्टावच्छिन्नचिद्विषयकाज्ञानाधारता- वच्छेदकत्वमेव उक्तवृत्तेर्युक्तम्, इष्टापत्तौ च शुक्त्याद्यवच्छिन्नाच- द्विषयकाज्ञानस्यैव इदमादिकं तद्विषयकमनोवृत्तिश्चेति द्वयमाघारताव- च्छेदकमिति मूलाद्युक्तिर्विरुद्धेति वाच्यम्; इदमादिविषयकत्वेन ज्ञाय - मानवृत्तौ शुक्तिविषकत्वेनाज्ञानस्य शुक्तित्वादिविशिष्टाज्ञान एव पर्यव- सानात् । अत्र तत्त्वं प्रातीतिकतादात्म्योपहितेदमादिविषयकत्ववि- शिष्टावच्छिन्नचिंदाधारताकस्य रजतभ्रमत्वविशिष्टावच्छिन्नचिद्विषयता- काज्ञानस्य अवश्यं वाच्यतया तेन चेदं ज्ञानं रजतप्रमेति भ्रमजनना- दिदं रजतं प्रमिनोमीति साक्षिप्रत्ययोपपत्तेः उक्तबाधकप्रतीतेः स्वज्ञा- नमात्रांशे मिथ्यात्वविषयकत्वसम्भवात् । व्यावहारिकेदमादिविषयक- - त्वसंसर्गस्य रजतादिभ्रमेष्वारोपे मानाभावः । न च सति स्फटिकाद्य- वच्छिन्ने लौहित्यादेवि तुच्छ स्यापि सम्बन्धोऽध्यस्यतामिति वाच्यम् ; आस्तिकनास्तिकयोः सत्तुच्छमिति प्रतीत्यभावेन ताह- शाध्यासतत्सामग्र्योः अकल्पनात्, 'वस्तुशून्यो विकल्पः' इति पात- झलोक्त्या तुच्छधीरूपविकल्पस्य सदविषयकत्वनिर्णयात्, कथं चित्कल्पनमपि तुच्छप्रतियोगिकतादात्म्यत्वेन, न तु सत्प्रतियोगिक- तादात्म्यत्वेन, तद्विशिष्टं चार्हान्तार्थः । तुच्छावच्छेदेन च सत्प्रतियो- गिकतादात्म्योत्पत्तेरसम्भवः । तुच्छस्य चित्सम्बन्धाभावेन चिति जायमानोक्ततादात्म्येऽवच्छेदकत्वा सम्भवात्तुच्छव्यवहारप्रयोजकतया वि १ 21 " अत्र तत्त्वं ' इति स्थाने 'ननु' इत्येव कोशान्तरे,