पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः दृश्यत्वात् जडत्वात् परिच्छिन्नत्वात् शुक्तिरूप्यवदिति । , , न्तरं स्वीक्रियते, साक्षिप्रायत्वात् । तत्कार्यस्य संस्कारादे: स्ववि- षय इव स्वस्मिन्नपि भ्रमणैकेनैव सम्भवात् गौरवेण भ्रमान्तरा- स्वीकारात् । अतो भ्रमभिन्नति विशेषणम् | पल्लवाज्ञानानङ्गीकारपक्षे तु विषयेत्यस्य स्थाने तादात्म्याश्रयेत्यस्योत्तरं च प्रातिभासिकेति वाच्यम् । पल्लवेति च न वाच्यम् । प्रातिभासिकत्वं च सर्वदृश्य- मिथ्यात्वानश्चयपूर्वं मिथ्यात्वेन निश्चितत्वं, जातिविशेषो वा । रजता- विभेदतव्याप्ययोरेकस्य इदमादौ निश्चयेऽपि अपरविशिष्टविषयकाज्ञा- नस्य सत्वात् तदापि रजताद्यध्यासोत्पत्तिम्स्यात्, अतः उभयवि- शिष्टविषयकाज्ञानाधारतावच्छेदकत्वयोः समुञ्चितयोः हेतुत्वलाभायो- भयोः निवेशः । उक्ताधारतावच्छेदकत्वं स्वरूपसम्बन्धेन, उक्ताधा- रतैव वा स्वावच्छेदकत्वसम्बन्धेन उक्ताज्ञानमेव वा स्वाधारतावच्छे- दूकत्वसम्बन्धेन हेतुः । एवं येन सम्बन्धेनोक्ताधारतावच्छेदकताया- मिदंत्वादेरवच्छेदकता तत्सम्बन्भावाच्छन्नस्वावच्छेदकतासम्बन्धेन उक्ता- धारतावच्छेदकत्वं प्रतियोगितासम्बन्धेन तज्जातीयसंसर्गे हेतुः । रजते इदंत्वस्य संसर्गो मिथ्यैव अभात्, न कदापि स तत्रास्तीति बाधात् । एवमिदमादिविषयकत्वस्य संसर्गः तद्वतः तादात्म्यं च रजतादिभ्रमा- वच्छेदेनोक्तभ्रमधर्मस्य रजतादिविषयकत्वादेः संसर्गस्येदमादिप्रमाव- च्छेदेनारोप्यते । न च रजतविषयकत्वस्येव रजतादौ रजतत्वादेरिव च उक्तोपहितेदमादिविषयकत्वस्य व्यावहारिकत्वात् रजतादिभ्रमे इदं- विषयकत्वं नास्तीति बाधाभावाच्च नेदमादिविषयकत्वारोप इति वाच्यम्; व्यावहारिकं यदिदमादि तद्विषयकत्वसंसर्गस्य रजतादि- भ्रमे प्रतीयमानस्य अव्यावहारिकत्वात् । इदं रजतमिति यज्ज्ञानं तन्मिथ्यैवेति प्रत्ययस्य रजतविषयकत्वे मिथ्यात्वासम्भवेन तदुपहित -