पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] पक्षतावच्छेदकविचारः 19 भावात् । एवं विप्रतिपत्तौ प्राचां प्रयोगाः – विमतं मिथ्या कालीनोदबुद्धसंस्कारस्य वा सत्त्वे इदमादावुक्तावच्छेदकत्वे मानाभा- वात् । भ्रमपुष्कलकारणसव तत्त्वज्ञानानुदय इति विवरणोक्तेश्च न रजतादरुत्पत्ति । तार्किकादिमते तु उक्तनिश्चयत्वाद्यवच्छिन्नाभा- वत्वेन रजतादिविशिष्टबुद्धौ हेतुत्वे महागौरवम् । मन्मते तु प्रमात्मक- विशिष्टबुद्धावपि न बाधस्य प्रतिबन्धकता । तत्सामप्रयाः प्रतिबन्ध- कत्वेनावश्यकेनोपपत्तेः । प्रतिबन्धकत्वाभिमतकालीनकारणे शक्य - स्वीकारेण उपपत्त्या कुत्रापि कार्ये प्रतिबन्धकास्वीकाराच्च । प्रति- बन्धकाभावस्येव शाक्तेर्नित्यत्वेऽप्यव्याप्यवृत्तित्वसम्भवात् । न चाज्ञान- स्यानादित्वादुक्तावच्छेदकत्वस्याप्यनादित्वेनोक्तानिश्चयाादसत्त्वेऽपि तत्सः म्भवतीति वाच्यम्; उक्तनिश्चयत्वाद्यवाच्छिन्नाभावस्येव तस्याप्युक्तनि- श्वयकालानवच्छिन्नस्वभावत्वात् । चिञ्चेत्यतादात्म्यस्यैव मुख्यविषय- आकारताख्यगौण विषयतायाः मनोऽविद्यापरिणामवृत्तिवि- शेषान् प्रति सम्बन्धत्वं भ्रमत्वं च । प्रातिभासिकाकारकाविद्यावृति- गतो जातिविशेषो भ्रान्तं मयेत्याद्यनुभवेन उक्तकार्यतावच्छेदकत्वेन च सिद्धः । भ्रमजनकदोषात्तस्यावृतत्वाच्च बाघात्पूर्व सः भ्रमेषु न गृह्यते प्रमात्वं चारोप्यते । तादात्म्यसम्बन्धेन भ्रमोत्पत्तिपूर्व नाज्ञाने तत्परिणामवैशिष्टयम् । अतः स्वतादात्म्योपलक्षितवृत्तिविषयतानिवेशः । तत्सम्बन्धेन च रजतादिभाविकार्यस्याप्यज्ञाने सत्त्वमस्तीत्यनागत घटादौ ज्ञायमा नघटत्वादिरूपसामान्यलक्षणसन्निकर्षस्य स्वसमवायवृत्तिविषयता- सम्बन्धेन सत्त्वमिव युज्यते । उक्तविषयतामात्रसम्बन्धेन भ्रमाव्य- वहितपूर्वक्षणपूर्वमपि कार्यस्याज्ञाने सत्त्वात्तद व्यवहितोत्तरक्षणे भ्रमोप- तिस्स्यात् । अतोऽव्यवहितपूर्वत्वनिवेशः । भ्रमस्य स्वास्मन्नविषयता अत्यन्ताभेदे सम्बन्धविरहात् । नापि विद्यमानभ्रमस्य ग्रहणाय भ्रमा- तात्वेऽपि 1 शक्ति.