पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः तत्प्रयोजकतया मिलितसिद्धिरुद्देश्येति समानम् । अत एव सत्त्वात्यन्ताभाववत्त्वे सत्यसत्त्वात्यन्ताभावरूपं विशिष्टं साध्य - मित्यपि साधु । न च मिलितस्य विशिष्टस्य वा साध्यत्वे तस्य कुत्राप्यप्रसिद्धया अप्रसिद्धविशेषणत्वं, प्रत्येकं सिद्धया 40 1 तत्प्रयोजकतयेति । ननु मिलितस्य हेतूपपादकत्वेऽपि प्रत्येकरूपेण सिद्धिः किमिति नोद्देश्या, यदि भिन्नं स्यात्तदा । समानाधिकृतं न स्यादित्यादेवि यदि सत् स्यात् तदा दृश्यं न स्यात् इत्यादेरपि प्रत्येकरूपेण व्याप्तिग्राहकस्य तर्कस्य सम्भवात् । न च लाघवान्मिलित- रूपेणकैवानुमितिरुद्देश्येति वाच्यम् । न्यायप्रयोगानन्तर प्रत्येकांशाप्र- योजकशङ्कानिरासकतर्कोत्थापनक्रमेण प्रत्येकानुमित्योरुत्पादेन मिळिता- नुमितिलाघवानुभवात् । पश्चान्मिलितानुमितिस्वीकारें प्रत्युत गौरवादिति चेन्न । प्रत्येकानुमित्योरुत्पादेऽपि न तत्र प्रकृतन्यायवाक्यतात्पर्यं, गौरवात् । किन्तु मिळितानुमितावेकम्यामिति न्यायवाक्यतात्पर्यविषय- त्वरूपोद्देश्यता मिळितानुमितेरेवेति भावात् । पक्षहेत्वारेकत्वे प्रत्येकन्याय- प्रयोगस्य गुरुत्वादशक्तिख्यापकत्वाच । न चैवमपि प्रत्येकावच्छिन्न- विषेयता कानुमितिरेव उद्देश्याऽस्तु भिन्नाभिन्नं सदसन्नत्यादिघटितप्रयोग- सम्भवे भेदाभेदोभयवदित्यादिघटितप्रयोगे गौरवादिति वाच्यम् ; येन रूपेणानुमितिविधेयता तेन रूपेण सिद्धिः प्रतिबन्धिका, समूहालम्ब- नाऽप्यनुमितिः प्रतिबध्या । अत एव वाङ्मनसे अनित्ये इत्यनुमितौ वा यात्रे सिद्धिरपि प्रतिबन्धिकेति मते तदसम्भवात् । भेदोऽमेदश्च प्रकृतहेतूपपादक इत्यादिधीविषयत्वरूपोभयत्वेन साध्यनिर्देशस्य सामा- न्यतः प्रत्येकांशसाधकतर्कसूचन फलकत्वात् । पश्चात् प्रतिवादिना प्रत्ये- कांशाप्रयोजकत्वे शक्तेि सूचिता एव मया प्रत्येक साधकतर्कास्त्वया 3 सूचक. 1 न स्यात्तदा. 2 लाघवासंभवात्.