पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृक्दृश्यसम्बन्धभङ्गः 47 विभक्तिरनार्थका स्यादिति निरस्तम् । व्यवहारयोग्यत्वं न व्यवहाररूपफलोपहितत्वम् ; कुत्रचित्प्रतिरुद्धे व्यवहारेऽव्याप्तेः । नापि तत्स्वरूपयोग्यत्वम् ; विषयत्वादन्यस्य तस्यासम्भवादिति पूर्वोक्तदोषात् । न चावच्छेदकाद्भिन्नं सहकारिविरहप्रयुक्तकार्या- भाववत्त्वं तदिति वाच्यम्; अनुगतावच्छेदकधर्मं विना तस्यापि गृहीतुमशक्यत्वात् । घटं करोतीत्यत्र सिद्धस्यैव कपालादेः कृतिकर्मता ; व्यापारकार्यतया' सिद्धस्यैव कृतिकर्मताङ्गीकारात् । अत एव निष्पादनवाचिधातुसमभिव्याहृतकर्मपदे शक्यावयवे विषयत्वादिति । कारणतावच्छेदकरूपं स्वरूपगोग्यत्वं विषयताघटित- मित्यर्थः । तस्यापीति । कारणतावच्छेदकोपहितम्य कार्याभाववत्त्वं सहकार्यभावप्रयुक्तं न त्वन्यस्य । न हि शिलायामकुराभावो जलाद्यभाव- ● प्रयुक्तः, तत्त्वाप्रत्ययात् । कारणतावच्छेदकवत्त्वेन निर्णते वस्तुन्येव सहकार्यभावप्रयुक्तं कार्याभाववत्त्वं निर्णेयम् । तच्चावच्छेदकं विषयत्व - घटितमित्यात्माश्रयस्तद्वस्थ इति भावः । क्षणिकविशेषस्य तद्व्यक्तित्वेन कारणस्य सहकार्यभावप्रयुक्तं न कार्याभाववत्त्वम् सहकारिकूटसम्प- नत्वादत उक्तं अनुगतेति । कार्यानुपधायकवृत्तीत्यर्थः । तेन. कार्यो- पधायकमात्रवृत्तिरूपेण कारणस्य सहकार्यभावप्रयुक्त कार्याभावाभावेऽपि न क्षतिः । शक्यावयवे स्वशक्यार्थसम्बन्धिविशेष । तेन रूपं करोति सुखं करोतीत्यादौ रूपादिसमवायिनि, ध्वंसं करातीत्यादौ ध्वंसादिप्रति- योगिनि लक्षणा लभ्यते ॥ 1 . यत्तु–“ज्ञाने व्यवहारजनकतावच्छेदकं न घटादिविषयकत्वम्, येनात्माश्रयः; किंतु संशयान्यज्ञानत्वम् । न चातिप्रसङ्गः; विशेषसाम- ग्रीसहिताया एव सामान्यसामग्रयाः फलोपधायकत्वात् । शक्यावयवे 1 व्यापारवत्तया. भावत्वम् - क. 4 लक्ष्यत-क. ग. 2 अप्रत्ययात्. 3