पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

46 सव्याख्यायामद्वैतसिद्धी [ प्रथम: किञ्च प्रयोगोऽपि स्वविषये सम्बन्ध इत्यात्माश्रयोऽपि । ननु - यज्ज्ञानं यदभिलपनरूपव्यवहारकारणं स तस्य विषयः; करण- पाटवाद्यभावेन व्यवहारानुदयेऽपि सहकारिविरहप्रयुक्तकार्याभाव- ववरूपं कारणत्वमस्त्येव । न च निर्विकल्पकविषये अव्याप्तिः ; तस्या ङ्गकारात् । न च यत्तद्भथामननुगमो दोषः; कस्य को विषय इत्यननुगतस्यैव प्रश्नविषयत्वेन तस्यादोपत्वात् । न च - घटज्ञानानन्तरं प्रमादाद्यत्र पट इति व्यवहारस्तत्र घटज्ञानस्य पटाभिलपनरूपव्यवहारजनकत्वेन पटविषयत्वापत्तिः; समान- विषयाभिलापं प्रत्यंत्र ज्ञानस्य जनकतया भिन्नविषयतया तत्रा- जनकत्वादिति चेन्न; अभिलपनरूपव्यवहारजननयोग्यत्वं न प्रातिस्विकरूपेण निर्णयम्; अवच्छेदकत्वस्य फलनिर्णेयत्वात्, प्रतिस्वं च फलादर्शनात् अजनितफले प्रातिस्विकयोग्यतायां मानाभावात्, किंतु तत्र तत्रानुगततत्तवृत्तिविषयत्वेन । तथा चात्माश्रयः । अत एव ज्ञानकर्मत्वं विषयत्वम्, कर्मत्वं च न कारकविशेषः; येनातीतादौ तदभावो भवेत् किं तु क्रिया- धीनव्यवहारयोग्यत्वरूपातिशयत्रत्वम् । अन्यथा घटं करोती- त्यादावसिद्धं घटादि " जनकं सिद्धं च न कृतिकर्मेति द्वितीया- , , . स्वप्रतियोग्यनुयोगिकत्वासम्भवादित्याशयेनाह – किञ्चेति । यत्तु शब्द- रूपस्य प्रयोगस्यासम्बन्धत्वात् प्रयुज्यत इति प्रयोग इति व्युत्पत्तेरथस्यैव सम्बन्धत्वात् सम्बन्धत्वेनाप्रवेशाच्च न दोष इति तत्तुच्छम् ; अर्थस्य सम्बन्धत्वेऽप्यात्माश्रयस्योक्तत्वात् । सम्बन्धत्वेनाप्रवेशम्तु नात्रोपयुक्तः । तत्र तत्रेति । घटादिव्यबहार इत्यर्थः । तत्तद्वृत्तिविषयत्वेनेति । घटादिनिष्ठं यद्वृत्तिविषयत्वं तद्घटितेन घटादिविषयकज्ञानत्वेनेत्यर्थः । 1 नङ्गीकारात्. " न जनकं.