पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः निरूढलक्षणामाहुरमत्कार्यवादिनः । सत्कार्यवादिनां तु पूर्वसतोऽ- प्यभिव्यञ्जनीयतया न कारकत्वकृतिकर्मत्वयोरनुपपत्तिः । एतेन- 'यस्यां संविदीत्यादिपूर्वोक्तेऽपि न दोपः, संविदीति सति सप्तमी, भासमानत्वं च व्यवहारयोग्यत्वम्, तच्च सति कारणान्तरे लक्षणेत्यपि न युक्तम् ; पटनित्यादाववयवव्यापार्यत्वान्यस्य पटादि कर्मत्व- स्यानुभवात् । अतएव सिद्धवृत्त्यसिद्धविषय कत्वस्य कृतौ नियम इति मणिकारादयः । अन्यथा यांगन स्वर्गं कुर्यादित्यत्र स्वर्गसाधनयागादि- लक्षणायामनन्वयः स्यात, कियाधीन व्यवहारयोग्यत्वरूपातिशयेन' प्रयो- गोपपत्तौ लक्षणायां मानाभावात् इति तन्न; संशयत्वस्य तत्तद्विरुद्ध विषय- कत्वरूपत्वेनात्माश्रयानपायात् । अथ संशयत्वमखण्डम्, तर्हि निश्चयत्व- मेवाखण्डम् ज्ञानत्वं वावच्छेदकं कुतो नोक्तमिति व्यक्तं ते मौढ्यम् । किञ्चैवं ज्ञानव्यवहाराणां तत्तद्व्यक्तित्वेन कार्यकारणभावात विशेषतोऽङ्गी- कृत्यापि नातिप्रसङ्गवारणं वक्तुं शक्यम्; तत्तयक्तीनां तत्तद्विषयीयत्व- नियाम काभावात् । न हि तत्तद्व्यवहाराणां तत्तद्विप यैर्विषयत्वान्यस्सम्ब- न्धोऽस्ति । तथा च तत्तद्विषयक तत्तद्व्यवहारव्यक्तित्वेन 'तत्तद्धीकार्यत्वमिति तद्घटितलक्षणे कथं नात्माश्रयः || अपिच ज्ञान ममिलापे हेतुः, अर्थबोधादिरूपेष्टसाधनताज्ञानाद्य- धीनप्रवृत्त्या तत्सम्भवात् । पटमित्यादौ पटादेरकारक (व) त्वेऽपि कर्मत्वं ब्रुवाणो देवानां प्रियः शोभतंतराम् । कर्मत्वस्येव कर्तृत्वादेरपि कारक- विशेषान्यत्वं किनितिन रोचयेः । क्रियाजन्यफलशालित्वादिरूपं कर्म- त्वादि क्रियानिर्वतकत्वरूप कारकत्वव्याव्यमिति वृद्धोक्तया कारकत्वाभावे कर्मत्वाद्यसम्भवः । अथ गौणं कर्मत्वादि क्रियाजन्यव्यवहारयोग्यत्वादि न 48 ? ' सिद्धविषयक क. 2 किनार्थेन. 'योग्यत्वानुशयन, नियामकाला- भात् - क. ग. 5न ज्ञान-ग