सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः जागरणवृत्तान्तमनुसरति' इति । स्वरूपेणापि तु भ्रमज्ञानस्य मिथ्यात्वमस्त्येव, स्वरूपतो बाधाभावे विषयतोऽप्यबाघप्रसङ्गात् । न च गुणजन्यत्वमुपाधिः; तस्याप्यापाद्यत्वेन वड्यनुमाने वाहसामग्रथा इव साधनव्यापकत्वेनानुपाधित्वात्, विषय इव मिथ्यात्वप्रयोजकदोषादिसमवहितसामग्रथा ज्ञानेऽप्यविशेषाञ्च । तुच्छज्ञान तद्वैषम्यादौ च तुच्छत्वादर्शनमबाधकम् । अवच्छेद्या- वच्छेदकयोः सर्वत्र सारूप्यनियमानभ्युपगमात्, प्रकृते चाव- च्छेदक इवावच्छेद्येऽपि मिथ्यात्वप्रयोजकरूपतुल्यत्वेन सारूप्यो- यथा कार्योपधाने व्यर्थमुक्तं खण्डने, तथा कारणतानवच्छेद करूपेण सत्त्वमपि, असतः कारणताया अनपोदितत्वात् । उपाधिरिति । भ्रमो यद्यबाधितं ज्ञानं स्यात्तदा अबाधितविषयकं स्यादित्यत्रेति शेषः । दोषादीत्यादिपदेनाविद्या गृझते प्रमात्वावच्छिन्नं प्रनि मनस्स्वेनेव 1 भ्रमत्वावच्छिन्नं प्रत्यविद्यात्वेन परिणामित्वम् । भ्रमत्वप्रमात्वे च पल्लवा- ज्ञानकार्यविषयकधीत्वतदन्यधीत्वादिरूपे जातिस्वरूपे वाऽनुगते । साक्षि रूपं ज्ञानमपि विषयोपहितरूपेण मिथ्येति न तत्र' व्यभिचार इति भावः । न च लाघवाद्वजतत्वादिनैव दोषकार्यत्वाद्वजतादिभ्रमो न चाक- चक्यादिधीरूपदोषजन्य इति वाच्यम् ; तादृशधीमात्रस्य भ्रमा जनक- त्वेन तद्धीव्यक्तेस्तत्वेन स्वविशिष्टं प्रति कारणत्वस्य वाच्यतया स्व- विशेष्याश्रय चैतन्यवृत्तित्व सम्बन्धेन तत्तद्रजतादाविव तद्विषयकाविद्या- परिणामरूपे भ्रमेऽपि स्वविशिष्टत्वस्य सत्त्वेन भ्रमस्यापि दोषकार्यत्वा- नपायात् । ननु तुच्छज्ञानादेश्शब्दादिजन्यत्वेन स्वरूपतो न तुच्छत्वं यथा, तथा भ्रमस्य मिथ्याविषयोपहितरूपेण मिथ्यात्वं न स्वरूपत इति किं न स्यात्तत्राह —तुच्छेति । सारूप्येति । समानस्वरूपतेत्यर्थः । -M 1 साक्षितावच्छेदक-क. ग. 3 स्तडीव्यक्तित्वेन, 4 श्रयवृत्तित्व 22 2 भ्रम. "