परिच्छेदः] असतः साधकत्वाभावे बाधकनिरूपणम् 23 पपत्तेः । सर्वसाधारणं चैकं कारणत्वमभ्युपगम्यैतदवोचाम । वस्तुतस्तु दण्डतन्त्वादिसाधारणमेकं कारणत्वं नास्त्येव; यत्र तब सत्वमवच्छेदकं, (तत्र) 'मम तुच्छविलक्षणत्वादिकम् ; किंतु कार्यतावच्छेदकं घटत्वपटत्वादि कारणतावच्छेदकं च दण्डतन्तु- त्वादि । तद्भेदाच कारणत्वं भिन्नम् | यथा गोगवयसादृश्य- मन्यत् भ्रातृभगिन्यादिसादृश्यमन्यत् तत्र नैकमवच्छेदकम्, किंतु गवयत्वभगिनीत्वादिकमेव ; तद्वदत्रापि दण्डत्वादिकमेव सत्वासत्वोदासीनमवच्छेदकं वाच्यम् । तथाच जनकत्वानुसारेण न सत्त्वासत्त्वसिद्धिः । तदुक्तं खण्डनकुद्भिः- " पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ । - नास्त्येवेति । मानाभावादिति शेषः । तुच्छविलक्षणत्वादिकमिति । कालसम्बन्धित्वं तुच्छविलक्षणत्वम् । आदिना अधिकरणसम्बन्धि- त्वादिकं गृह्यते । न चैवं- तुच्छमपि कारणं कार्यविशेषे स्यात्, तुच्छव्यावृत्तरूपेण सामान्यकारणत्वे तु सामान्यसामग्रीविरहादेव नाप- तिरिति वाच्यम्; बौद्धैरपि तस्य कारणताग्राहकमानाविषयत्वेनार्थ- क्रियाकारित्वानुक्तेः कार्यविशेष प्रति तस्य कारणत्वाकल्पनात् । ननु नियतपूर्वसत्त्वरूपं कारणत्वं कथमसति तत्राह -- पूर्वसम्बन्ध- नियम इति । कार्याव्यवहितप्राक्कालावच्छेदन कार्यव्यापकत्वे सत्य- नन्यथासिद्धत्वरूप इत्यर्थः । व्यापकतायां प्रतियोग्यधिकरणव्यावृत्त विशेषणताविशेषाणामन्यतमसम्बन्धेन कार्यवान्निष्ठत्वं निवेश्यम्, तेना- भावस्य सिद्धान्ते सार्वत्रिकत्वेऽपि न क्षतिः । अथवा पूर्वसम्बन्धस्य नियमो यत्रेति व्युत्पत्त्या नियतान्वयव्यतिरेकशालिनि स्वक्रियमाणं यद्धतुत्वं तस्मिन्नतिरिक्त पदार्थरूपतया आवयोस्तुल्य इत्यर्थः । 1 न मम. ? जनकत्वाजनकत्वा. 3 मसदति.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५२
दिखावट