पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असतः साधकत्वाभावे बाधकनिरूपणम् नुविधानं कार्ये न स्यात् ; न ह्यकारणोत्कर्षः कार्यमनुविधत्ते इति न्यायात् । न च ज्ञानप्रकर्षादेव तत्प्रकर्षः; ज्ञानेsपि विषयगतप्रकर्ष बिहायान्यस्य प्रकर्षस्याभावात् । अथ ज्ञानगता. जातिरेव प्रकर्षः । न ; चाक्षुषत्वादिना सङ्करप्रसङ्गात्, विषय- प्रकर्षेणैवोपपत्तौ चाक्षुषत्वादिव्याप्यनानाजात्यङ्गीकारे गौरवा- न्मानाभावाच्च । किञ्च ज्ञानस्य भयादिजनकत्वे सर्पाद्यवच्छिन- त्वमेव कारणतावच्छेदकमास्थेयम्; ज्ञानत्वेन जनकत्वेऽतिप्रस- नात्, तथा च मिथ्या (त्वा) वच्छिन्नत्वाकारेण ज्ञानस्य मिथ्या- त्वात् भ्रमस्थले ज्ञानमात्रस्य जनकत्वेऽपि मिथ्याभूतस्य जन- कत्वमागतमेव । जनकतावच्छेदकरूपेण च मिथ्यात्वे रूपा- न्तरेण सत्त्वमप्यसत्त्वान्नातिरिच्यते; अनुपयोगात् । तदुक्तं खण्डनकुन्द्रि:- 'अन्यदा सत्त्वं तु पाटच्चरलुण्ठितवेश्मनि यामिक- स्यादिति भावः । ज्ञानेऽपि विषयगतप्रकर्षमिति | न च दोषप्रकर्षादेव ज्ञाने प्रकर्ष इति वाच्यम् ; दोषप्रकर्षेऽपि ज्ञानप्रकर्षस्य विषयान्यस्यानु प- लब्धेः पः । तुल्यदोषाधीनत्वमपि भ्रमविषययोः प्रमाविषययोर्वा प्रकर्षा- प्रकर्षाभ्यां सुखादिप्रकर्षाप्रकर्षदर्शनात् विषयप्रकर्षेणानुभविकेनैवोप- पत्तौ ज्ञानप्रकर्षे मानाभावस्य वक्ष्यमाणत्वाच्च । सङ्करेति । तस्य दोष- त्वानभ्युपगमे तु ज्ञान इव विषयेऽपि प्रातीतिके विनिगमनाविरहेण जातिसिद्धया तस्यापि हेतुत्वसिद्धिः । 'किञ्च ज्ञानगतवै जात्यमननुभवान्न विषयातिरिक्तम्; अन्यथा साकारवादापत्तेः । अनुमितित्वादिकमपि व्याप्ठ्य । दिधीजन्यत्वादिरूपं विषयघटितमेव । व्याप्तचग्रह काले तद्धी- रसिद्धैवेति भावः । अन्यदा सत्त्वमिति | कार्योपधानकालान्य' कालसत्त्वं ●


, तयाद्यग्रह-ग. 5 कार्योपधानकाल–क. 21 1 न्यत्वस्था. 2 दोषाधीनभ्रम -क. ख. ग. उन व्याप्तयादि. 4 व्या- 3