पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः जनकत्वात् । ब्रह्मणो वेदान्तसाध्यत्वे तु नित्यत्वविरोधः । तृतीये प्रांगभाववत् घटस्य स्वजनकत्वे प्रतियोगिप्रागभावयोः समान- कालीनत्वापत्तिः, स्वावधिकपूर्वत्वघटितजनकत्वस्य स्वस्मिन्व्या- हतत्वं च । चतुर्थे पञ्चमे च प्रतियोगितदभावयोः सहावृत्या भ्रमप्रत्यवाययोरनुत्पत्तिप्रसङ्गः । षष्ठे कामनावत् कामनाविषयस्य यागजनकत्वे तस्य प्राक्सत्तया तत्कामनैव व्याहन्येत; सिद्धे इच्छाविरहात् । सप्तमेऽतीतस्य जनकत्वे कार्याव्यवहितपूर्वकाले स्वस्वव्यापारान्यतरसत्त्वापत्तिः । अष्टमेऽसतो जनकत्वे निः- स्वरूपत्वव्याघातः । नवमे चिकीर्षित घटज्ञानवत् स्वस्य जनकत्वे पूर्ववव्याघातः । दशमे उदासीनस्य ब्रह्मणो न निवर्तकत्वम् ; स्वरूपतः उपहितस्यैव वृत्तिविषयत्वेन तस्याविषयत्वात्, उप- हितस्य च निवर्तकत्वमस्त्येव । एकादशे ब्रह्माज्ञानस्य परिणा- मिकारणत्वेऽपि न ब्रह्मणो जगत्कारणत्वम् ; कार्ये जडत्वो- पलम्भात् । एवंविधबाधकबलेन तत्रोपलक्षणत्वस्वीकारात् । न च प्रकृते बाधकमस्ति, अव्यवहितदेशकालादिवृत्तित्वस्य प्रातिभासिक साधारणत्वात् । इदानीमत्र सर्प इत्यादिप्रतीत्य- विशेषात् । न हि क्वचिद्धाधकबलेन मुख्यपरित्यागः कृत इति सर्वत्र तथैव भविष्यति; उत्कर्षायनुविधानाञ्च | तथा हि- स्वमे जागरे चोत्कृष्टकलधौतदर्शनादुत्कृष्टं सुखम्, उत्कृष्टसर्पादि- दर्शनाच्चोत्कृष्टं भयादि दृश्यते; विषयस्याकारणत्वे तदुत्कर्षा- च तुल्यौ ज्ञात्वैव हि घटः क्रियते । उपहितस्येति । ज्ञानकार्य प्रति विषयहेतुताया उक्तत्वादिति भावः । कारणत्वं —— परिणामित्वम् । जडत्वेति-जडत्वमात्रेत्यर्थः । चैतन्यपरिणामत्वे कार्य चैतन्यं 1 1 कथं. 20