पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः]. असतः साधकत्वाभावे बाधकनिरूपणम् 19 मस्त्येवेति विशेषः । तथाहि प्रथमे घटदेशकालौ गृहीत्वा तद्भिन- देशकालत्वं तदत्यन्ताभावादौ ग्राह्यम् ; घटस्यापि तत्सम्बन्धे तद्देशकालभिनदेशकालत्वमेव व्याहतं स्यातू । द्वितीये त्विष्टा- पत्ति: ; क्वचित् घटज्ञानस्य घटेच्छाजनकत्ववत् घटं प्रत्यपि अतएव गावोऽस्यासन् भविष्यन्ति वेत्यादौ गवादीनामस्तित्वाभावस्थले गोमानित्यादि न भवतीति महाभाष्यादावुक्तम् ॥ वस्तुतस्तु सम्बन्धमात्रे मतुप् । अतएव मतुबस्त्यर्थ इति सूत्रेणासधात्वर्थसम्बन्धमात्रे स विहितः । अतएव च दण्ड्ययमासी दित्यादेः साधुत्वं महाभाष्यादावङ्गीकृतम् । तथा व दण्डी प्रैषानन्वाह, दण्डी गच्छति' इत्यादौ विशिष्टवैशिष्ट्यान्वयस्यौत्सर्गिकत्वादेव दण्ड- सम्बधानुवचनाद्योरेककालीनत्वलाभः । न च ' धातुसम्बन्धे प्रत्ययाः ' ' इति सूत्रेण सूत्रान्तरानुक्तार्थेऽपि प्रत्ययविधानात् ' वसन्ददर्श ' इत्यादौ शतृप्रत्यय इव दण्ड्यासीदित्यादौ मतुष्प्रत्ययस्याप्यतीत कालोऽर्थ इति वाच्यम् ; तावतापि 'दण्डी भुते, भाविकृत्यमासीत् ' इत्यादौ गत्यभावात्, आंबे हि नोक्तसूत्रप्रवृत्तिः आख्यातस्य विरुद्धार्थकत्व- स्थल एव तत्स्वीकारात्, द्वितीयेऽतीतकृत्यमा सीदित्यन्वयासम्भवात्, प्रकारान्तरेण समाधानापेक्षया चोक्तरीतिरेव युक्ता | विद्यमानसम्बन्धा- र्थक एव बहुव्रीहिरित्युक्तिम्तु शोभते; नष्टधनोऽयमित्यादावतथात्वात् । अतएव ‘ मत्वर्थे बहुव्रीहिः' इति कात्यायनोक्तिरौत्सर्गिकपरा । तद्गुण- संविज्ञान मुख्यत्वं तु विशेषणत्व मुख्यत्वादेव ||

क्वचित् घटज्ञानस्येति । भाविघटज्ञानस्य घटं प्रत्यपि कारण- त्वम् । न च – घटोद्देश्यकेच्छाधीनकृत्यान्यथा 'सिद्धं ज्ञानमिति- वाच्यम् ; कृतेरपि कपाल संयोगेनान्यथासिद्धत्वापत्तेः । अन्वयव्यतिरेको ' - 1 2 कृत्यन्यथा - ख. काल - क. 2* ---