पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः ·

तथा धूमं बिना जायमानानुमितौ न तस्य सः | यदि तु स्वज्ञानस- म्बन्धेन विषयम्य कारणत्वं लाघवात, न तु ज्ञानस्य तदा सुतरां न दोषः ; अतीतस्यापि स्वजन्यापूर्वसम्बन्धेन यागादेखि व्याप्तयादिविषय- तानिरूपितस्वविषयताकंज्ञानसम्बधेन धूमादेरपि हेतुत्वसम्भवात् । न च – यत्र ज्ञाने व्याप्यत्वादिविशिष्टधूमत्वादिरूपेण धूमादिर्न भातः, किं त्वन्यः, तज्ज्ञानव्यक्तेर्धूमादिसम्बन्धत्वासम्भवादनुपपत्तिरिति- बाच्यम्; स्वज्ञानाव्यवहितोत्तरानुमितौ धूमादेः कारणत्वेऽनुपपत्त्यमा- बात् स्ववृत्तिधूमत्वाद्यवच्छिन्नविषयताकज्ञानत्वेन रूपेण तज्ज्ञानस्यापि धूमादिसम्बन्धत्वसम्भवात् । ( एतेन – 2 न लिङ्गस्यानुमितौ कारणत्वं युक्तम् ; कार्याव्यवहितपूर्वक्षणे स्वस्वव्यापारान्यतरसत्तायामेव सर्वस्य कारणस्य कारणतायास्तान्त्रिकैः स्वीकारात्, अतीतादिधूमादेः कारणत्वा- संभवा'दित्यपास्तम् ; उक्तक्षणे विद्यमानधूमादेरेबोक्तसंबन्धेन मया हेतुत्व- स्योक्तत्वात् । न चैवमतीतव्यक्तेस्तद्व्यक्तित्वेन हेतुतास्थले कारणता न स्यादिति – वाच्यम् ; इष्टत्वात्, विशिष्टकारणताग्राहकमानस्य बाघ- काभावे सत्येव विशेषणीभूतलिङ्गे कारणताग्राहकत्वात् ।) मतुबर्धस्तु न विद्यमानः सम्बन्धः ; किंतु विद्यमानस्यास्तीत्यस्य, तदित्यनेनैवान्व- यात् । यदिच सम्बन्धविशिष्टेऽस्तित्वान्वयात्सम्बन्धेऽपि तदन्वय इत्यु- च्यते, तथापि तादृशोऽर्थो विशेषणत्वस्यौत्सर्गिकत्वादेव । अन्यथा सम्बन्धोपलक्षित एव तदन्वयसम्भवात् । किञ्चास्मिन्नस्तत्यिर्थे मतुपि का गतिः ? न यस्मिन्निति तदित्यत्रान्वेति ; येन विशिष्टेऽस्तित्वान्वयात्त्व- दिष्टसिद्धिः, किंतु कारकत्वादस्तिक्रियायाम् तथाचाघाराधेयभावरूप- मत्वर्थस्य कादाचित्कत्वेऽपि तत्पदार्थस्यास्तित्वमादाय मतुप्सम्भवत्येव । - . संभवात् - ग. .) 1 कुण्डलितः पाठः - क पुस्तके म दृश्यते. " एतेन लिङ्ग--ग. 3 कारणत्व- - ●