पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभ्याख्यायामद्वैतसिद्धौ राम्रयासिद्धयादिकं चेति चेन; मिथ्यात्वसाधकप्रतिज्ञा- अपनीतपक्षादीनां मिथ्यात्वबोधनेअप व्याहत्यभावाद, प्रति- शादिभिस्तेषां त्रिकालाबाध्यत्वरूपसन्चाप्रतिपादनात् । ननु जियम: , - सेन तस्य तथा बोधनात् तस्य तत्प्रमेयत्वानुपपत्तेर्वा । नात्यः; व्यक हारकालाबाध्यत्वेनैव तत्प्रमेयत्वोपपत्तेरित्याशयेनाह - मिथ्यात्वेति । आद्यं प्रत्याह – प्रतिज्ञादिभिरिति । त्रिकालाबाध्यत्वेति । तदर्थक- पदस्य प्रतिज्ञादावभावान तस्य तद्वोषकत्वम्, धीमात्रस्य त्रिकाला- बाध्यरूपसद्रूपविषयकत्वपक्षेऽपि सद्रूपतादात्म्येन स्वविषयं । धीमात्रमव- गाहते, न तु त्रिकालाबाध्यत्वरूपसत्त्वेनेति भावः || 1 नन्वेवमप्याश्रयासिद्धयादिकं स्थितमेव ; न च मिथ्यात्वानुमितेः पूर्वमाश्रयासिद्ध्यादिनिश्चयाभावात्तस्या उत्पत्तिरविरुद्धेति वाच्यम्; कार्यकालेऽपि बाघबुद्धयमावस्यापेक्षणीयत्वेन मिथ्यात्वानुमि तेर्हश्यमात्रस्य स्वाधिकरणनिष्ठामावप्रतियोगित्वावगाहिन्या उत्पत्त्यसम्भवात्, प्रतिज्ञा दिजन्यमिथ्यात्वबोधेन तस्याः पूर्वमप्याश्रयासिद्धयादिविषग्रीकरणाश्चेति, चेन्न; व्याहत्यभावादित्यनेनैवाश्रयासिद्ध्यादिकृतस्यानुमित्यादि-याघात - स्यापि निरसनात् । तथाहि — अनुमित्या प्रतिज्ञादिजन्यबोधेन वा बक्षतावच्छेदक विशिष्टे मिथ्यात्वं बोध्यते । न च तावता आश्रया । सद्धिधी: 2; पक्षविशेषणतावच्छेदकरूपेण पक्षनिष्ठाभावप्रतियोगत्वा- निश्चयस्याजातत्वात् । एवं न स्वरूपासियादिकमपि, हेतुतावच्छेद- कादिविशिष्टे पक्षादिनिष्ठाभावप्रतियोगित्वनिश्चयाभावात् । विशेषानुमाने उक्तरूपविशिष्टे स्वाश्रयनिष्ठाभावप्रतियोगितात्वविशिष्ट प्रकारक निश्चयेऽपि नाश्रयासिद्धयादिशङ्कापि । किञ्चाश्रयासियादिलक्षणे प्रतियोगिव्यधिकर- णाभावस्यावश्यं निवेश्यत्वान्मिथ्यात्वघटकाभावस्य चातथात्वान्नं दोषः || 1 त्वविषयं क. 2 सिद्धिबाघधीः.