पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्या अद्वैतसिद्धिः द्वितीय सम्पूट म् अद्वैत सिद्धिः अथामतः साधकत्वोपपत्तिः ननु सन्चसाधकानां मिथ्यात्वसाधकानुमानेभ्यः प्राब- ल्यम्, मिथ्यात्वसाघकप्रतिज्ञापनीतपक्षादीनां मिथ्यात्वा बोधने सर्वमिथ्यात्वासिद्धिः । तदोघने परस्परव्याहृति- गुरुचन्द्रिका अथासतः साधकत्वोपपत्तिः परस्परेति । मिथ्यात्वसाधकानां न्यायवाक्यघटकप्रतिज्ञादीना- 'मनुमितेश्च मिथो व्याघात ; प्रतिज्ञया मिथ्यात्वस्य हेतुवाक्यादिना. हेतुत्वादेश्याबाध्यत्वलाभः, प्रतिज्ञाद्यधीनानुमित्या च मिथ्यात्वादि- रूपस्य दृश्यमात्रस्य मिथ्यात्वरूपबाध्यत्वलाभ इति व्याघातात् । एवं पक्षादौ तद्विशेषणीभूतधर्माणामभावस्य मिथ्यात्वानुमिया विषयीकरणा- दाश्रयासिद्धयादिकम् । तथा चोक्तव्याघातादिसत्त्वेन मिथ्यात्वसाधकं दुर्बलमिति भावः । प्रतिज्ञादिना मिथ्यात्वादेर बाध्यत्वं कथं लभ्यते ?' 1 1 समत्वेन ग.