परिच्छेदः] आगमबाधोद्धारः "
1 दिसिद्धब्रह्मसत्त्वानुवादि स्यादिति चेन्न; ब्रह्मत्वसामानाधिकर- ण्येन सवस्य प्रत्यक्षादिभ्योऽप्राप्तेः शून्यवादप्रसङ्गेन तस्य निषेधायोगाच्च, 'इदं सर्व यदयमात्मा' इत्यत्र अनुवादलिङ्ग- सम्भवेन कल्पनाच्च । एवमानन्दश्रुतेरपि 'अदुःखमसुखं समम् ' इति निषेधाय न प्रत्यक्षप्राप्तानन्दानुवादित्वम्, दुःखसाहचर्येण चिदेव, सिद्धान्ते सुखादौ वृत्त्यनङ्गीकारात् । ब्रह्मत्वेति । ब्रह्मत्व- सामानाधिकरण्येन या सत्त्वप्राप्तिर्ब्रह्म सत्यमिति धीः तस्याः प्रत्यक्षा- दिभ्योऽभावादित्यर्थः । तथाच उक्तप्रत्यक्षादिना तत्सत्यमित्यादिवाक्यं नानुवाद, उक्तप्रत्यक्षासिद्धं यत्तद्ब्रह्म न सत्यमिति भ्रमनिरासरूपं प्रयोजनं, तत्साधकत्वात् । यदि युक्तं प्रत्यक्षं ब्रह्मसत्यमित्याकारं स्यात्, तदा उक्तप्रयोजनसाधकं स्यात् । तत्सत्यमिति वाक्यजमखण्डज्ञानं तु ब्रह्म सत्यमित्याकारधीद्वारकत्वादुक्तप्रयोजनकमिति भावः । अथवा ब्रह्मत्वसत्त्वयोस्सामानाधिकरण्यं ताभ्यामुपलक्षितयोरैक्यम् ब्रह्मत्ववि शिष्टे सत्त्वसम्बन्धश्च चतुर्षा उक्तेषु सामानाधिकरण्येष्वभेदे सामा- नाधिकरण्यस्याखण्डैक्यपर्यवसानात् । विशेषणविशेष्यभावे सामाना- धिकरण्यस्य च समानसत्ताकधर्मद्वय सामानाधिकरण्ये पर्यवसानात्तयो- रप्राप्तेरित्यर्थः । तथाचोक्तप्रत्यक्षं नाखण्डविषयकम् । ' न ब्रह्म न सत्य मिति भ्रमनिवर्तकमिति न तेन तत्सत्यमिति श्रुतिरनुवाद इति भावः । इदं सर्वमित्यादौ शाखान्तरीयवाक्ये निषेधार्थानुवादे यदिति लिङ्गस्य दृष्टत्वात्तदेकार्थतया विश्वं सत्यमित्यादावपि तत्कल्प्यत इत्याह – इदं सर्वमिति । न चैवमपि यत्तदिति लिङ्गाभावस्तदवस्थ इति वाच्यम् : नेह नानास्ति किञ्चनेत्यादौ किंशब्दस्य, नेतीत्यादौ चेतिशब्दस्य यत्प- दार्थपरामर्शकत्वेन तच्छब्दतुल्यत्वात् यत्तदोर्नित्यसम्बन्धेन यच्छब्द- बलादेव तच्छब्दकल्पनसम्भवाच ॥ 2 - 1 1 यत् ब्रह्म न सत्यमिति इति पा, , , 3 ब्रह्म सत्यमिति, 483 -