पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

482 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः एव निषेधवाक्यप्राबल्यातदनुरोधेनेतरत्रयिते । अथाप्राप्तान्य- प्राप्त्यर्थत्वेऽप्यलौकिकस्य 'आपश्च न प्रमिणन्ति' इत्यादिपदा- र्थ संसर्गस्य विधेयस्य सत्त्वान्न निषेध्यार्थानुवादकत्वमिति चेत्र ; तदन्यपरत्वस्य प्रागेवोक्तत्वात् । ननु 'यत्तन्न' इति निषेधानु- वादलिङ्गाभावात्रानुवादः, न; यत्किञ्चिल्लिङ्गाभावेन लैङ्गिका- भावस्य वक्तुमशक्यत्वात् । ननु तर्हि 'तत्सत्यम्' इत्याद्यपि 'न सत्तन्नासदुच्यते' इति ' असद्वा इदमग्र असीत्' इति च निषेधाय 'सन् घटः, सत् घटज्ञानं, सत् सुखस्फुरणम्' इत्या- अप्राप्तान्येति । अलौकिकस्य लौकिकमानाविषयस्य | आपश्चनेति । व्यापनशीला देवाः चन अपि प्रमिणन्तीति देवप्रमेयत्वसंसर्गस्येन्द्रकर्तृक जगत्सर्जनादौ विधेयस्य सत्त्वादित्यर्थः । अन्यपरत्वस्य स्तुतिपरत्वस्य निषेधविधानपरत्वस्य वा । तथाच उक्तसंसर्गस्य न विधेयत्वम् । इन्द्रक टेकव्यावहार्रिकसत्य जगत्सर्जनस्य श्रुत्यादिना प्रमेयत्वस्य साक्षि - सिद्धत्वात्, अस्मदादिकं प्रतीव देवान्प्रत्यपि श्रुत्यादिना तस्य प्रमेयत्व सम्भवात्, अनुमानादिना देवप्रमेयत्वस्यास्माभिर्ज्ञातुं शक्यत्वात् । एवं नहिंसन्तीत्यर्थोपि न विधेयः; तस्यापि मानान्तरेण ज्ञातत्वात् निष्प्र- योजनत्वात् तद्धिंसाबोधकवाक्यान्तरविरुद्धत्वाञ्च | किन्तु स्तुतौ निषेधे वा तात्पर्यमुक्तवाक्यस्येति भावः । यत्तन्नेति - निषेधार्थानुवादस्य यत्तदिति यल्लिङ्गं तदभावादित्यर्थः । न कल भक्षयेदित्यादौ निषे- धार्थेऽपि प्रतियोग्यनुवादे तादृशलिङ्गाभावान तदावश्यकमित्याह -- न यत्किञ्चिदिति । लिङ्गाभावेन अनुवादत्वव्यञ्जकाभावेन । यत्तु एकमप्यनुवादलिङ्गं प्रकृते नेति, तत्तुच्छम्; रजतमिदं ज्ञातम्, परन्तु नेदं रजतमित्यादाविव ज्ञातार्थकत्वस्यैव तल्लिङ्गस्य सत्त्वात् । सन् घट इत्यादौ ब्रह्मणि सत्त्वसम्बन्धो न भातीत्यत आह -सद्धटज्ञानमिति । ज्ञानं वृत्तिरूपं सत्त्वेन भातीत्यत ओह - सत्सुखेति । सुखस्फुरणं तु ,