पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

481 परिच्छेदः] कलअं भक्षयेत्' इत्यादावपि निषेध्यसमर्पणार्थ 'कलअं भक्ष- येत्' इत्यादिवाक्यान्तरसापेक्षत्वप्रसङ्ग इति चेन्न; सर्वत्रापेक्षा- नियमाभावात्, सति सम्भवे प्रकृते त्यागायोगात्, 'अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति' इत्यादौ वाक्या- न्तरप्राप्तस्य निषेधदर्शनाच्च । न च तद्वदेव विकल्पापत्तिः, सिद्धे वस्तुनि विकल्पायोगात्, ग्रहणाग्रहणवाक्ययोरुभयोरपि माना- म्तराप्राप्तविषयत्वेन तुल्यबलत्ववदिह सत्त्वश्रुतेर्मानान्तरप्राप्त- विषयत्वेन निषेधश्रुतेश्याप्राप्तविषयत्वेन तुल्यबलत्वाभावाच्च । अत स्थापकत्वसम्भवादिति परास्तम् । यद्यपि विश्व सत्यमित्याद्यनुवादः स्तुत्यर्थ इत्यपि सम्भवति । उक्तं चाचार्यैस्तद्व्याख्यानावसरे तथा पूर्वम् । तथाप्यन्यविधानार्थताया अपि सम्भवात् परेणात्र तदूषणस्य कृतत्वाच्च तन्निरासपूर्वकं सापि व्यवस्थाप्यत इति बोध्यम् । कलअं भक्षयेदित्यादीति । तथाच प्रतियोगिप्रसञ्जकवाक्याभावेऽपि विशेष- रूपेण निषेधाधिकरणान्तर्भावेन च प्रतियोगिप्रसक्तेर्मानान्तरेण सम्भ- वाद्यथा निषेधोपपत्तिर्न कलञ्जमित्यादौ तथा नेह नानेत्यादावपीति भावः । सति सम्भव इति । यथा प्रत्यक्षादिमानान्तरेण विशेषरूपेण प्रतियोगिप्रसक्तिस्सम्भवति, तथा उक्तवाक्येभ्योपीत्यर्थः । यद्यप्युक्त - वाक्यानि बिनापि प्रसक्तिरस्ति, तथापि निषेधवाक्यार्थतात्पर्यज्ञापकतया तेषामुपयोगः | लोकेऽपि हि मानान्तरप्रसक्तनिषेधवाक्यतात्पर्य माना- न्तरानुवादेन ज्ञापयन्ति - इदं रजतमिति दृष्टं परन्तु न तथेति, एवं विश्वं सत्यमिति प्रमिणन्ति, परन्तु न सत्यमिति निषेधतात्पर्यज्ञापको मानान्तरानुबादः । अतएव चनेत्यस्य ' छेदेन व्याख्यानाभावेऽपि न क्षति- रित्यपि बोध्यम् ! ननु सत्यत्वासत्यत्वयोरेकत्रा सम्भवेऽपि क्वचिदृश्ये चास- त्यत्वं क्वचिदृश्ये च सत्यत्वं स्यात्तत्राह - षोडशीति । आशङ्कते- । -8- 1 भेदेन. A.S.V. आगमबाधीद्वार: 9 31