पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

484 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः वस्तुतस्तु यत्तदोरेकतरेणोत्तरवाक्यस्थेनान्यतरस्य पूर्ववाक्यस्थस्य समभिव्याहारो नापेक्ष्यते । अतएव - साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ इत्यादौ तथा दृश्यत इति मम्मटोक्तेस्तच्छब्द समानार्थकिमितिशब्दयो- रप्युत्तरवाक्यस्थयोर्यच्छब्दसमभिव्याहारानपेक्षत्वात् । प्रकृते यच्छब्दा- वश्यकत्वं परेण मौढ्यादेवाशङ्कितमिति ध्येयम् । अत्र सन् घट इत्यादौ घटाद्युपहितसद्रूपस्यैव भानेन शुद्धब्रह्माभानात्तत्सत्यमिति श्रुत्यनुवादत्वं परस्यासम्भवदुक्तिकमेव । न च- सर्वप्रत्ययवेद्येऽस्मिन्ब्रह्मरूपे व्यवस्थिते । प्रपञ्चस्य प्रविलयश्शब्देन प्रतिपाद्यते || इति मण्डनोक्तेश्शुद्धं ब्रह्म सर्व वीवेद्यमिति वाच्यम्; व्यवस्थिते घटाद्यवच्छिन्नसद्रूपेण विशेषेणावस्थिते ब्रह्मरूपे सर्वधी वेद्येऽपि प्रपञ्चस्य प्रकृष्टो बाधरूपो विलयो यस्मा ज्जातः तत्तादृशं ब्रह्म शब्देन श्रुत्यैव प्रतिपाद्यत इति तदर्थात् - परागर्थप्रमेयेषु या फलत्वेन सम्मता । संवित्यैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः || इति वार्तिकोक्तेरपि वेदान्तमेयशुद्धब्रह्माण घटाद्यवच्छिन्नस्फरणरूपफल- तादात्म्यमर्थः । तेन घटस्फुरणं सदित्यादिप्रत्यक्षमपि नोक्तश्रुत्यनुवाद- ताप्रयोजकम् । न चोपहितविषयकबुद्धौ शुद्धस्यामाने तदुत्तरं शुद्धसंश- यादि स्यादिति वाच्यम्; शुद्धसंशयादावपि तस्याविरोधित्वात् । ब्रह्मणश्शु- द्धस्योपस्थित्यभावेनोक्तापत्त्यसम्भवात् उपस्थितौ वा उक्तापत्तेरिष्टत्वाच ॥ 1 भाने इति. 2 सर्वधा. 3 ज्ञानात्तादृशं, ज्ञातादिति वा प्रा. 4 फलत्वेन हि.