पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

468 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः रिति वाच्यम्; यदि हि दृष्टेऽप्यर्थे प्रत्यक्षं स्वप्रामाण्यनिर्ण- याय श्रुतिसंवादमपेक्षेत तदा श्रुतिसंवादविरहिणि दृष्टे कुत्रापि निश्शङ्कप्रवृत्तिर्न स्यात् । न स्याच्चैवं 'अग्निर्हिमस्य भेषजम् ' इत्याद्यप्यनुवादकम् । न चेष्टापत्तिः ; मानान्तरगृहीतप्रमा- णभावप्रत्यक्षनिर्णीते मानान्तरस्याननुवादकत्वे जगत्यनुवाद - कत्वकथोच्छेदप्रसङ्गात् । न च 'सत्यं ज्ञानं, नेह नाना ' इत्यादेरप्यनुवादकतापत्तिः । अनुवादकता हि न तावत्प्रत्य- क्षेण ; ब्रह्मत्वसामानाधिकरण्येन सत्त्वादिकं हि अनेन प्रतिपादनीयम्, तच्च न प्रत्यक्षगम्यम् । नाप्यनुमानेन, ग्रहः । ब्रह्मत्वसामानाधिकरण्येनेति । ब्रह्मत्वसत्त्वयोस्सामानाधिकरण्य- धीद्वारेत्यर्थः । तच्च तादृशप्रतिपादनं च । गम्यमिति | लभ्य मित्यर्थः । ब्रह्म न सदित्यादिभ्रमनिवृत्तिरुक्तधद्वारा जायमानात्सत्यत्वाद्युपलक्षिता- खण्डविषयकज्ञानादेव न तु सन्नहमित्यादि प्रत्यक्षात्, तत्सत्वेऽपि ताह- शभ्रमानुवृत्तेरित्युक्तप्रत्यक्षं नोक्तश्रुतिसमानाकारं, न वा तत्समानप्रयोजन - मिति, न तेन तस्यानु वादकतेति भावः । अथ भिन्नाकारत्वेऽपि समान- प्रयोजनकं ब्रह्म सत्यं भ्रमादिष्ठनत्वादित्यनुमानमनुवादकता प्रयोजक- मस्तु, तत्राह – नापीति । वस्तुतो ब्रह्म न सदित्यादिभ्रम निवर्तकत्वेऽपि तत्त्वमसीत्यादिवाक्यगततत्पदलक्ष्यस्वरूपप्रमारूपप्रयोजनस्योक्तानुमानाद- सिद्धेः तदसिद्धौ च तत्स्वरूपाज्ञानानिवृत्त्या तत्र तज्ज्ञानप्रामाण्ये वा संशयेन तत्त्वमसीत्यादिवाक्यार्थे तज्ज्ञाने चाप्यौचित्यावर्जितस्य संश- यस्य प्रामाण्यसंशयस्य वा दुर्वारत्वान्नानुमानेनोक्तश्रुतेरनुवादत्वशङ्केति ध्येयम् । न चोक्तस्वरूपे लक्षणाज्ञानार्थं तद्धीः, असम्प्रज्ञातसमाधि' रूपविशेषणांशेऽनुहुद्धसंस्कारजन्यस्मरणरूपा वा वाच्येति तत एव 2 तस्या अनु 3 दित्यनुमानं वादकथा. 4 स्वरूपलक्षणाज्ञानार्थं, 5 1 लक्ष्य. रूपा विशेषणांशे.