पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धारः 469 तस्यापौ- न हि तर्कस्सर्वदेशकालीन पुरुषसाधारण इत्यादिना प्रागेव निरा- कृतत्वात् । नापि प्रवाहानादिविज्ञानवादिमतेन; रुषेयश्रुत्यवधिकपूर्वत्वाभावात् । न च – सत्त्वश्रुतेस्सत्त्वप्रत्यक्षा- नपेक्षत्वान्न सापेक्षानुवादकत्वम्, निरपेक्षानुवादकत्वं तु धारा- वहनवन्नाप्रामाण्यहेतुः । उक्तं हि नयविवेके - 'सापेक्षानुवादे हि न प्रमितिः । न तु दैवादनुवादे धारावहनवत् इति तत्स्वरूपाज्ञाननिवृत्तौ किमुक्तप्रमयेति वाच्यम्; अप्रमया तद्धिया तद- ज्ञानानिवृत्तेः, निरुद्धमनस्साक्षिणस्स्मृतेर्वा प्रमात्वाभावात् । अतएव तत्त्वंपदलक्ष्यौ शास्त्रेणैव प्रम तव्यावलौकिकत्वादिति सिद्धान्तबिन्द्वा- दावाचार्यैरुक्तम् । यतु उक्तश्रुतिः, न ब्रह्मत्वसामानाधिकरण्येन सत्त्व - बोधिका अखण्डार्थत्वादिति; तदुक्तार्थानवबोधात् । न हि तर्क इति । येषामनुमानाकौशलेन विरुद्धतर्कामासेन वा अनुमाने अमत्वशङ्का, तेषां तच्छ्रन्या ब्रह्मसत्त्वादिधीरुक्तश्रुतिभ्यामेवेति न तयोरनुवादकतेति · भावः । विवरणादावविद्यादेर्भावरूपत्वाद्यनुमानं तु निपुणं पुरुषं प्रत्येव प्रवृत्तम् । अस्ति च तत्रापि 'नासदासीत्' इत्यादिश्रुतिरभावादिरूपासद- न्यत्त्वबोधिका । यत्तु अहं सन्नित्यादिप्रत्यक्षं ब्रह्मसत्त्वानुमाने भ्रमत्व - शङ्कानिवर्तकमिति, तत्साक्षिप्रत्यक्षस्य ब्रह्मत्त्वसामानाधिकरण्येन सत्त्वा- विषयकत्वात् भ्रमसाधारण्यादेरुक्तत्वाच्च परिदूनम् । पूर्वत्वाभावांदिति । पूर्व निश्चायकत्वाभावादित्यर्थः । अनिश्चायकत्वे हेतुं पौरुषेय त्वं ज्ञाप- यितुं श्रुतौ तदभावं ज्ञापयति – अपौरुषेयेति । प्रतिसर्ग नास्तिक- शास्त्राणां सत्त्वेपि सर्गादिकालीनवेदोत्पत्तेः पश्चादेव भ्रमप्रमादादिदोष- युक्तैर्नास्तिकैः क्रियमाणत्वात्, विज्ञानवादे घटादिज्ञानस्य मिथ्यात्वा- नकी कारात्, शून्यवादे च साक्षिसाधारणपक्षतावच्छेदे कावच्छेदेन 1 परिहृतम् . 2 यकत्वे तु पौरुषेय. 3 मिथ्यात्वादशी.