परिच्छेदः ] आगमबाधोद्धारः 467 कर्मकाण्डप्रामाण्योपपादने वक्ष्यते । न च – प्रत्यक्षं स्वप्रामाण्य - निर्णयार्थ श्रुतिसंवादमपेक्षत इति न तेन श्रुतेरनुवादकत्वम् । अन्यथा सत्यं ज्ञानं, नेह नानेत्यादिश्रुतिरप्यनुवादिनी स्यात् । ब्रह्मसत्त्वस्य लोकतो भ्रमाधिष्ठानत्वेन लिङ्गेन च, मिथ्यात्वस्य दृश्यत्वाद्यनुमानेनावेदमूलप्रवाहानादिविज्ञानवादादिना च प्राप्ते
, काण्डस्य ब्रह्मप्रमापकत्वं तु सम्भवत्येव ; परमतात्पर्यविषयस्य ब्रह्मणोऽ बाध्यत्वात् बाघितेऽप्यर्थे पूर्वमबाघात्, 'सत्यस्य सत्यं, प्राणा वै सत्यं, तेषामेष सत्यः' इत्यादिश्रुतिभिः प्रपञ्चस्य न्यूनसत्त्वावगमाच्च, न्यूनसदर्थविषयकत्वरूपं व्यावहारिकं प्रामाण्यं कर्मकाण्डस्य सम्भवत्येव । त्वन्मते तु 'वसन्ते वसन्ते ज्योतिषा यजेत' इत्यादौ हे वसन्त इत्याद्यर्थवत् तत्त्वमसीत्यादौ अतत्त्वमसीत्याद्यर्थवच्च. जरगवादि- वाक्येऽपि तादृशार्थस्सम्भवत्येव || " लोकत इति । अज्ञोऽहं सन्निति प्रत्यक्षादिनेत्यर्थः । ननु 'सत्यं ज्ञानमनन्तम्' इत्यादिवाक्येन ज्ञानस्य विनाशित्वादिरूपान्त- शून्यत्वप्रतिपादनात्कथमुक्तप्रत्यक्षेण तस्यानुवादकत्वमिति चेत्, तथापि सत्यत्वज्ञानत्वांशे सन्नहं जानामीत्यादि प्रत्यक्षणानुवादत्वसम्भवात्, निरवयवद्रव्यत्वादिनाऽनन्तत्वस्याप्यनुमानसम्भवाच्च । मिथ्यात्वस्येति । सर्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वस्येत्यर्थः । तेन विज्ञानवादे ज्ञाना- तिरिक्तार्थस्यालीकत्वात् स्वाधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वाबोधक- त्वेऽपि नासङ्गतिः । विज्ञानवादशास्त्रस्य वेदमूलकत्वे तादृशानुमानादिनेव तेनापि वेदस्य नानुवादत्वमत उक्तं अवेदमूलेति । यदि विज्ञानवाद- शास्त्रमाधुनिकं स्यात्तदा प्रवाहानादिवेदानुवादकतायां न प्रयोजकं, प्रवाहा- नादित्वात्तु भवेत्प्रयोजकमित्याशयनोक्तं - प्रवाहानादीति । ननु विज्ञानवादे घटाद्याकारज्ञानस्य मिथ्यात्वाप्रतिपादनात् नेह नाने ति श्रुत्या च तत्प्रति- पादनान्न तेन सोऽनुवाद इत्यतो वादादिनेति । आदिना शून्यवादपरि- - 30* , ·