पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धारः A.S.V. क्रियादिसमभिव्याहारसिद्धस्यापूर्वत्वेन तद्विषयतयैवाननुवादक- त्वोपपत्तावद्वैतश्रुतिबिरुद्धतात्त्विकसत्त्वाविषयत्वकल्पनायास्तदर्थ मयोगात् । परमार्थसद्विषयता तु सर्वश्रुतीनां शुद्धब्रह्म तात्पर्य - कत्वेनैव । अवान्तरतात्पर्यमादाय व्यावहारिकसद्विषयतेति स्तुत्यादिरूपस्येत्यर्थः । क्रियादीति | क्रिया प्रमिणन्तीत्यादिपदसमुदाय- लभ्यवाक्यादिरूपा, 'आदिपदात् व्यावहारिकसत्त्वबोधक विश्वं सत्यमित्या- दिसङ्ग्रहः । क्रियादिपदसमुदायलभ्यवाक्यार्थद्वारकं स्तुत्यादिरूपमपूर्व विघिसमभिव्याहृतविश्वसत्त्वादिवाक्यप्रमेयमित्यर्थः । अथवा स्तुतिधीद्वारी- भूतो न प्रमिणन्तीति अपूर्ववाक्यार्थः तस्य विश्वं सत्यमित्यादिवाक्ये सत्त्वा द्विश्वसत्त्वांशेऽनुवादत्वेऽपि न क्षतिरित्यर्थः । यद्वा किया भावना, आदिना तदंशस्वर्गादिरूपसाध्यादितद्भोधकपदसमभिव्याहारेण स्तुत्यादि- रूपापूर्वार्थ एवार्थवादाधिकरणन्यायेनोक्तवाक्यप्रमेय इत्यर्थः । सदर्थत्वा- येति -- यदुक्तं तत्र सत्त्वं तात्त्विकत्वं व्यावहारिकत्वं वा, अन्त्ये तात्त्वि- कविषयत्वमवश्यमित्यसङ्गतं, आद्ये त्वाह - परमार्थसद्विषयतेति ॥ - ननु – 'सत्यं ज्ञानम्' इत्यादिवाक्यस्यापि ब्रह्मविदाप्नोती- त्यादिक्रियासमभिव्याहारसत्त्वात् क्रियाघटितवाक्यार्थमादाय प्रामाण्य - सम्भवाद्ब्रह्मणोऽपि तात्त्विकत्वासिद्धि; किंच सत्यं ज्ञानमित्यादिवत्सि- द्धार्थकान्यपि विश्वसत्यताबोधकानि 'विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् । जहि प्रतीचोऽनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु' इत्यादीनि सन्ति । किञ्च त्वन्मते जरद्द्ववादि- वाक्यस्यापि लक्षणया अखण्डब्रह्मपरत्वसम्भवेन तद्विलक्षणं प्रामाण्यं न कर्मकाण्डे सिद्धयति । अवान्तरतात्पर्यविषयस्य बाघितत्त्वेन तमा- दाय ब्रह्माणि प्रामाण्यं 3 पर्यवसितमिति चेत्, भ्रान्तोऽसि, ब्रह्म- विदामोतीत्यादिवाक्ये हि न क्रियाघटितवाक्यार्थे तात्पर्यम्, ब्रह्मविदो , 1 प्रमिणन्तीत्यादिरूपा. 2 न सत्त्वा. 3 अपर्यवसित. 6 465 30 - -