पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां षड्डिशतिरित्येव ब्रूयादिति वचनवत् प्रत्यक्षप्राप्तजगत्सवस्य मिथ्यात्वयाऽऽपाततोऽपोदितस्य प्रतिप्रसवार्थ सत्वश्रुतिरिति चेन ; मिथ्यात्वश्रुतेः प्रत्यक्षबाधकत्वाभ्युपगमे तस्या बलववेन तद्विरोधात् सत्यत्त्वश्रुतेरन्यपरत्वाद्देवताधिकरणन्यायासम्भवाच्च प्रतिप्रसवार्थत्वस्य वक्तुमशक्यत्वात् । ननु सत्त्वप्रत्यक्षप्रामाण्ये तेनैव मिथ्यात्वश्रुत्यनुमानादिबाधः, तदप्रामाण्ये न तेन सत्वश्रुते- रनुवादकत्वम् इति चेन्न; प्रत्यक्षाप्रामाण्येऽपि तत्सिद्धबोधक- स्यानुवादकत्वसम्भवात् । न हि प्रमितप्रमापकत्वमनुवादकत्वम्, किन्तु पश्चाद्भोधकत्वमात्रम् | पश्चात्त्वं च प्रमाणावधिकमप्रमाणा- वधिकं चेति न कश्चिद्विशेषः । न च श्रुतेस्सर्वसिद्धप्रमाणभावायाः सदर्थत्वायाननुवादकत्वाय च प्रत्यक्षाप्राप्ततान्त्रिक सत्याविषयत्व- मवश्यं वक्तव्यम् । तथाचाप्रमाणेन प्रत्यक्षेण कथं श्रुतेरनुवादकत्व- मिति वाच्यम्; सत्त्वांशस्य प्रत्यक्षसिद्धत्वेsपि वाक्यार्थस्य पड्विंशतिरित्येवेति । न चतुस्त्रिंशदिति ब्रूयादित्यादिः । अन्यपर स्तुतिपरत्वात् । ननु स्तुतिपरादपि विश्वसत्त्ववाक्यात 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादितो द्वारभूतवाक्यार्थ इव विश्वसत्त्वं सिद्धयतु, तत्राह —देवतेति । मानान्तरबाध्यार्थे तन्नचायासम्भवः, प्रमापकत्वा- सम्भवेन तद्व्यवस्थापकत्वासम्भवादिति भावः । ननु भ्रमप्रत्यक्ष प्राप्ता- र्थस्य श्रुतिविषयत्वे श्रुतेरप्रामाण्यं स्यादित्यत्र मदुक्तदूषणपर्यवसानम्, न तु प्रमितबोधकत्व रूपस्यानुवादकत्वस्यानुपपत्तौ, तथाच नेदं समाधानं युक्तमिति चेन्न; देवताधिकरणन्यायसिद्धं प्रमाण्यं विश्वसत्त्वांशे' श्रुतेर्न सम्भवतीति पूर्वमेवोक्तत्वात्, क्रियादिसम भिव्याहारसिद्धवाक्यार्थरूपस्तु- त्याद्यंशे प्रामाण्यस्य व्यावहारिकस्य वक्ष्यमाणत्वाच्च, प्रामाण्याभावस्यास्म दिष्टत्वेन तत्र दूषणपर्यवसानोक्तेरुन्मत्तप्रलापत्वात् । वाक्यार्थस्येति । 1 ननु प्रत्यक्ष. 2 प्रमितिबाधकत्व. 3 विश्वसत्तादौ. 464 [प्रथम