पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आगमबाधोद्धारः 459 सिद्धानन्दानुवादिनी सत्त्वश्रुतिवद्भवेदिति चेन्न; साक्षिण उप- हितानन्दविषयत्वेन श्रुतेश्च निरूपाधिकानन्दविषयत्वेन भिन्न- विषयत्वादनुवादत्वायोगात् । तया हि स्वरूपानन्दो गृह्यते । स्वरूपं चाज्ञानोपहितमेव साक्षिविषयः । ननु तत्त्वमसीत्यादौ नवकृत्वोऽभ्यासवत् पिपासितस्य जलगोचरप्रमाणसम्प्लवव क्ये षड्डिधतात्पर्यलिङ्गवद्भावरूपाज्ञाने प्रत्यक्षसिद्धे 'तम आसीत् ' इत्यादिश्रुतिवत् सत्त्वश्रुतिर्दार्ढ्यार्थेति चेन्न; अशेषविशेषग्राहित्य- परिच्छेदः , , पत्तौ वा मोक्षहेतुधीविषयस्यापि बाधापत्तेः बाध्यबाधकधीविषययोस्स मानसत्ताकत्वेन विनिगमकाभावात् । तस्मान्ना तात्त्विकम् । उक्तश्रुतिषी- विषयत्वाभ्यां अद्वैतवाक्यार्थरूपमखण्डं ब्रह्म यदि व्यावहारिकं तदा बाध्येत । न च बाध्यते, साक्षिस्वरूपत्वादनुपलभ्यमानबाधकत्वात् । तस्मान्न व्यावहारिकमित्यादियुक्तिसचिवोक्तानुमानादद्वैतश्रुतेस्तात्त्विकं प्रमाण्यम् । द्वैते तु नैवं युक्ति । प्रत्युत द्वैतं यदि तात्त्विकं स्यात् तदा दृश्यं न स्यात्, संसृष्ट न स्यात् ; दृश्यत्वात्संसृष्टत्वाच्च न तात्त्विकम्, हगादिसंसर्गस्य निर्वक्तुमशक्यत्वादित्यादियुक्तिसचिवानुमा नादिना विश्वसत्यत्वश्रुतेरतात्त्विकविषयकत्वसिद्धिः । अतएवाध्यासबा- धयोस्सामानाधिकरण्यमित्यपि निश्चेतुं शक्यमेव ; प्रपञ्चस्य व्यावहारि- कत्वनिश्चयेनाध्यासत्वादिनिश्चयात् । न च व्यवहारदशायामध्यासत्वा- दिनिश्चयाभावेन तादृश सामानाधिकरण्यानुपपत्तिरिति वाच्यम्; अध्या- सत्वादिघटितरूपेण हि विश्वं सत्यमित्यादिवाक्यान्न बोधः, किन्तु वस्तुगत्या भिन्नसत्ताकयोस्तादात्म्यं बाध्यमानम्, तादात्म्यं वा तादात्म्य - त्वेन बुध्यते विचारदशायामेव अध्यासत्वादिनिर्णयेन उक्तसामानाधिकर- ण्यान रासः । अतएव शुक्तिरूप्याद्यंश एवं उक्तवाक्यस्य बाधायां सामानाधिकरण्यमित्युक्तम् । भिन्नविषयत्वादिति । न चैवं विश्वं , 1 तस्मान्न. 2 इति. 3 निर्णयः