पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

460 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः क्षप्राप्ते तद्दार्थमन्यानपेक्षणात् । पिपासितस्य शब्दलिङ्गान- न्तरं जले प्रत्यक्षमपेक्षितम्, न तु प्रत्यक्षानन्तरं शब्दलिङ्गे । न च तर्हि 'तम आसीत्' इत्यादेर्न किञ्चिदवेदिषमिति प्रत्यक्ष- सिद्धाज्ञानादाढ्यर्थत्वं न स्यादिति वाच्यम्; ‘तम आसीत्' इत्यस्य सृष्टिपूर्वकालसम्बन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वे नाज्ञान ग्राहकं प्रत्यक्षमपेक्ष्य भिन्नविषयत्वेनैव प्रामाण्यसम्भवात् । सत्यमित्यादिश्रुतेरपि प्रत्यक्षागृहीत तात्त्वि कसत्त्वग्राहकत्वमिति वाच्यम् । अन्यथानुपपन्नाद्वैतश्रुतिविरोधादिना निरस्तत्वात् । दाढ्यर्थमिति । फलपर्यन्तप्रत्यक्षे भ्रमत्वशङ्काविरहस्य सिद्धत्वात् तद्रूपद सिद्धयेऽन्यान- पेक्षेति भावः । सृष्टिपूर्वकालेति । 'नासदासीन्नो सदासत्तम आसीत् ' इत्यादिश्रुतौ तदानीमिति पदसत्त्वात्तदर्थप्रलया' भिन्नातीतकालसत्त्वमा- सीदित्यनेनोक्तमिति भावः । यद्यपि सदसद्विलक्षणकार्यत्वादिति हेतुकानु- मानादिनापि प्रपञ्चे सदसद्विलक्षणकारण पूर्वकत्व ग्रहणात्सृष्टिपूर्वकालीन- त्वेनाप्यज्ञानं गृहीतम्, तथाऽपि विपरीतानुमानादिना तादृशानुमानाद्य- प्रामाण्यशङ्कावतामनिपुणपुरुषाणामननुवादिकैवोक्तश्रुतिः ॥ यत्तु 'एतावन्तं कालं ब्रह्म नावेदिषम्' इत्यनुभवेन ब्रह्मधी- पूर्वकालमात्र गतत्वेनाज्ञानग्रहणादुक्तश्रुतिरनुवादिकेति, तत्तुच्छम् ; ब्रह्म- धीपूर्वकाल वृत्तित्वेन ग्राहकानुभवेन प्रलयवृत्तिताग्राहक श्रुतेरनुवादत्वा- योगात् । उक्तकाल 'त्वप्रलयत्वरूपप्रकारभेदात् । किञ्चोक्तसाक्ष्यनुभव- स्योक्तश्रुतिग्राह्यसदसद्विलक्षणत्वाग्राहकत्वात्, भ्रमत्वशङ्कास्पदत्वेनोक्तश्रुतिसापेक्षत्वाच्च, अ प्रमासाधारणत्वेन नोक्तश्रुत्यनुवादकताप्रयोजक- त्वम् । अत एव ब्रह्म न जानामीति साक्ष्यनुभवस्य तच्छङ्काप्यसङ्गतै- वाभ्युपेत्याचार्यैस्समाहिता । सत्त्वप्रत्यक्षे तु न भ्रमत्वशङ्केति न दाढ्यार्थं श्रुतिसापेक्षता । एतेन प्रळयकालीनसाक्षिणा सृष्टिपूर्वकालीन- 1 प्रलयभिन्नेति-पा. 2 काला. 3 उक्तकाले. ·