पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

458 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रमथः , , स्वतन्त्र एक एवेत्येवंरूपं स्वतन्त्राद्वितीयमपि न तदर्थः । यजमानप्रस्त- रयोस्तु न व्यावहारिकाभेदो वाक्यार्थः तं विनाऽपि गौणार्थद्वारा स्तुति- बुद्ध्युपपत्तेः । अन्यथा तयोर्षर्मसाङ्कर्य व्यावहारिकं प्रतीयेत । एक- नाशेऽप्यपरावस्थित्यनुपपत्तेश्च । गतिसामान्यं तु अबाधितत्वबोधकमेव, अद्वैतबोधकानि सर्वशाखागतानन्तवाक्यानि यद्यद्वैत तात्पर्यकानि न स्युः तदा लक्षणान्यशेषत्वादिकल्पनादुष्टानि स्युरित्यादि तर्कोपस्था पकत्वात् तादृशवाक्यानां मिथस्संवादविसंवादाभावरूपपरीक्षासम्पाद- कत्वाच्च । तथाच वाक्यानामखण्डार्थत्वाद्गतिसामान्यं नाबाधितत्वबोधक- मित्युक्तिमढ्यादेव । न ह्यबाधितत्वप्रकारेण प्रमापकं वाक्यमिति नस्स- म्मतम् । तात्त्विकातात्त्विकविषयतया श्रुत्योर्व्यवस्था तु युक्तैव, अद्वैत- श्रुतिः तात्त्विकप्रमाणम्, अव्यावहारिकप्रमाणत्वे सत्यज्ञातसप्रयोजनार्थक श्रुतित्वात् . तात्त्विकप्रमाणत्वेन पराभ्युपगतश्रुतिवत् । अन्यथा प्रामा- ण्यानुपपत्तिरनुकूलतर्कः । न च विरोधपरिहाराय विश्वसत्त्वश्रुतिः न तात्त्विकप्रमाणं ' तात्त्विक निषेधप्रतियोगिविषयकत्वादित्यनुमानस्य अव- श्यापेक्षणीयत्वं निषेधतात्त्विकत्वं च पूर्वानुमानादिति परस्पराश्रय इति वाच्यम् ; विश्वसत्त्वश्रुतिविरोधो हि पूर्वानुमाने विश्वसत्त्वश्रुतेस्ता त्त्विकप्रमाणत्वनिश्चयाधीनः स च नास्त्येव, अद्वैतश्रुताविव तस्याम व्यावहारिकप्रमाणत्वानिश्चयेन उक्तहेत्वभावात् ! उक्तलनाजन्यमंत्र- यस्तु पूर्वानुमाने साध्यसंशयसम्पादको न विरोधी । तवाप्रामाण्य - संशयस्तु उक्ततर्कमूलकविशेषदर्शनादिना निरसनीय इत्यन्योन्याश्रया- भावात् । किंञ्च अद्वैतं यदि प्रातांतिकं स्यात् व्यावहारिकं वा स्यात् तदा ‘अदृश्यमव्यवहार्यम्' इत्यादिश्रुत्यर्थो न स्यात् मोक्ष हेतुघीविषयो न स्यात् । व्यावहारिकबन्धनिवृत्तेर्व्यावहारिकतत्त्वज्ञानादनुपपत्तेः उप- , b 1 तात्पर्यजनक्रानि स्युः दोष 3 न विरोधी तत्र प्रामाण्य न विरोधि- तयाप्रामाण्य. वा.