पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगम बाधोद्धारः 457 भावे 'नीलमुत्पलम्' इत्यादौ अभेदे ' तत्त्वमसि' इत्येवमादौ । अत्र च बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्यत्व- बोधकश्रुतेः षड्डिधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वम् । नन्वात्मन आनन्दत्वबोधिका श्रुतिरपि 'सुखं सुप्तोऽस्मि' इति साक्षिप्रत्यक्ष- कयोस्तादात्म्यबोधकाक।ङ्क्षाघटितमित्यर्थः । अभेदेनेति । अखण्डार्थ- बोधकाकाङ्क्षाघटितमित्यर्थः । अध्यासे वेति । वाकारो व्यवस्थित- विकल्पः । शुक्तिरूप्यादौ विश्वान्तर्गते बाधिते बाघायां अबाधिते वियदादौ त्वध्यासे सामानाधिकरण्यमित्यर्थः । यत्तु - " न हि सर्वे- त्यादिना बाधिततया प्रतीयमानस्यापि वाक्यार्थत्वमर्थान्तरानुपपत्तेरित्यु- क्तम्, तथाच वन्मते तत्त्वमसीत्यादौ तत्त्वंपदवाच्ययोरैक्यमपि वाक्या- र्थस्स्यात्, अर्थान्तरानुपपत्तेः । अथ लक्षणया शुद्धयोरैक्यरूपमर्थान्तर- मुपपद्यत इत्युच्यते, तर्ह्यद्वैतवाक्येऽपि स्वतन्त्राद्वितीयमर्थोऽस्तु । अन्यथा ' यजमानः प्रस्तरः' इत्यादेर्यजमानप्रस्तरयोः व्यावहारिकाभेदोऽर्थोऽस्तु । प्रत्यक्षा देस्तु प्रातीतिकस्तयोर्भेदो विषयः, तत्त्वमसीत्यादेरपि वाच्ययोस्ता- त्त्विकाभेदः, प्रत्यक्षादेस्तु व्यावहारिकभेद इति स्यात् । गतिसामान्यं तु अभ्यासपर्यवसन्नमबाधितत्वासाधकम्, त्वन्मते सर्ववेदान्तवाक्यानामभ्य- स्तानामप्यस्खण्डार्थत्वात् । व्यावहारिकतात्त्विक रूपविषयभेदेन श्रुत्यो - वस्थोक्तिर्न युक्ता, अन्योन्याश्रयात् । विनिगमकाभावात् अध्यासे बाधायां वा सामानाधिकरण्यमयुक्तम्, तयोरद्याप्यसिद्धेः " इति तत्तु- यदि हि बाच्ययोरैक्ये उपक्रमादिकं स्यात्, न स्याच्च 'प्रपञ्चो. पशमं शिवमद्वैतं चतुर्थं मन्यन्ते सोऽयमात्मा स विज्ञेय' इत्यादिश्रुतिः तदा तादृशैक्यं वाक्यार्थस्स्यात् । 'आत्मैवेदमग्र आसीन्नान्यत्किञ्चन मिषत्' इत्यादिनिष्प्रपञ्चात्मोपक्रमादिसत्त्वात् उक्तश्रुतेर्मन्दमतिकृताया ‘विश्वं सत्यमित्यादिश्रुतिबाधितत्वशङ्कायाश्च व्यावहारिकतात्विकविषय- भेदव्यवस्थया परिहारात्, अद्वितीयात्मैव तत्त्वमसीत्यादेरर्थः । अतएव , ' ,