पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः पपत्तिगतिसामान्याभ्यां च निर्णीयते । न हि सर्वप्रपञ्चनिषेध- रूपमद्वैतं व्यावहारिकम् । येन तत्र श्रुतेर्व्यावहारिकं प्रामाण्यं स्यात् । अतस्तत्र तात्त्विकमेव प्रामाण्यम् । द्वैतसन्त्रं तु व्याहारि कम् । अतस्तत्र न श्रुतेस्तात्त्विकं प्रामाण्यम्, परस्परविरुद्धयोर्द्वयो- स्तात्त्विकत्वायोगात्, वस्तुनि च विकल्पासम्भवात्, तात्विक व्यावहारिकप्रामाण्यभेदेन च व्यवस्थापपत्तेः, अतत्परत्वेनाव- धारितस्य विश्वसत्यत्ववाक्यस्यैवान्यथा व्याख्यातुमुचितत्वात् । तथाहि चतुर्धा हि सामानाधिकरण्यम्; अध्यासे 'इदं रजतम् ' इत्यादौ, बाधायां ' स्थाणुः पुमान्' इत्येवमादौ, विशेषणविशेष्य- प्यज्ञातत्वादित्रयविशिष्टार्थप्रमापकत्वरूपं तात्पर्यमभ्यासादिही नार्थेप्यज्ञा- तत्वादित्रय निर्णये शक्यं निर्णेतुम् ; तथापि तादृशार्थे प्रयोजनव- त्त्वाद्यभावीनर्णायकतयाऽर्थांतरीयाभ्यासादेरज्ञातत्वादित्रयाभावनिर्णयद्वारा उक्ततात्पर्याभावनिर्णायकत्वमिति ध्येयम् । अन्यथाउनुपपत्तं विवेच यति - न हि सर्वेत्यादि । द्वैतस्य तात्त्विकत्वे व्यावहारिकत्वे वा तद्बुद्धौ सत्यां व्यावहारिकाद्वैतबुद्धयसम्भवात् । न च तस्यामसत्यामवाद्वैत बुद्धिरिति वाच्यम् ; नाहं ब्रह्मेत्यादिधीरूपाया- स्तस्यारसवदा सम्भवात् तां बाधित्वा श्रुत्यादिबलवत्प्रमाणेन तदुत्पाढे च द्वैतस्यातात्त्विकत्वं सिद्धमिति भावः । सामानाधिकरण्यमिति । समानविभक्तिकमिथम्साकाङ्क्षनाम द्वयत्वरूपं पदयोस्सामानाधिकरण्य- मित्यर्थः । अध्यास इति । भिन्नसत्ताकयोस्तादात्म्यबोधका काङ्क्षा- घटितमित्यर्थः । बाधायामिति । बाध्यमानतादात्म्योपलक्षितस्याधिष्ठा- नस्य बोधकाकाङ्क्षाघटितमित्यर्थः । स्थाणुः पुमानित्यादेः स्थाणुत्वेन ज्ञातः पुमानित्यर्थकत्वात् । तत्स्थाणुतादात्म्येन बाध्यमानेनोपलक्षितः पुमानधिष्ठानं प्रतीयत इति भावः विशेषणविशेष्यभावेनेति । समानसत्ता- - 4 तत्रस्थाणुः स्थाणुतादा, 456