परिच्छेदः] आगमबाधोद्धारः व च । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारकं - उपक्रमोपसंहार- योरैकरूप्यं, अभ्यासः, अर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये तावन विवादः, सर्वासामेवोपनिषदामेवं प्रवृत्तत्वात् । मानान्त- रासिद्धतया मोक्षहेतुज्ञानविषयतया च अज्ञातत्वं सप्रयोजनत्वं च निर्विवादमेव अबाधितत्वमात्रं सन्दिग्धम् । तच्चान्यथानु- माणं बादरायणस्यानपक्षत्वात् " इति जैमिनीयसूत्रे प्रमात्वशरीरघटक- विषयेऽबाधितत्वं प्रविष्टमित्याशयेन औत्पत्तिक इत्यनेन कारणदोषोऽव्यति- रेक इत्यनेन बाधक ज्ञानाभावो विवक्षितः । अज्ञातत्वं प्रविष्टमित्याशयेन अनुपलब्ध इति, सप्रयोजनत्वं निविष्टमित्याशयेनार्थ इत्युक्तम् । उक्तं च शास्त्रदीपिकादौ । विशेषणत्रयेणाबाधितागृहीतार्थग्राहि ज्ञानं प्रमाणमिति 2 प्रमाणलक्षणं सूचितमिति भावः । एवंच लिङ्गशब्दस्तत्र विशेषणतया ज्ञापकत्वात्प्रयुज्यत इति बोध्यम् । अतिप्रसङ्गवारकमिति । यत्र पूर्वत्रिकं द्वयोरर्थयोरस्ति, अभ्यासादित्रयान्यतमच्च एकत्रैवार्थे, तत्राभ्यासाद्यन्यतम- ही नार्थेऽपि तात्पर्यापत्तिरूपस्यातिप्रसङ्गस्य, अभ्यासादिहीनेऽर्थेऽपि तात्प- र्येऽभ्यासादिवैयर्थ्यापत्त्या वारकमित्यर्थः । एवं चेदं वाक्यं यद्येतदर्थतात्प- र्यकं न स्यात्तदा एतदर्थेऽभ्यासादि युक्तं न स्यात् । एतदर्थतात्पर्यकामिदं नार्थान्तरतात्पर्य कमेकवाक्यत्वेन गृहीतत्वादित्यादितर्कावतारे आपाद्या- भावनिश्चयादिविधयाभ्यासादिनिश्चयस्य तात्पर्यनिश्चयोपयोगितेति । यत्रो क्तातिप्रसङ्गस्तत्रैवाभ्यासादेस्तद्वारकतयोपयोग इति ध्येयम् । ऐकरूप्य- मेकार्थनिष्ठता । यथा 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्युपक्रमस्य 'ऐतदात्म्यमिदं सर्व तत्सत्यम्' इत्युपसंहारस्य चाद्वैत- निष्ठता । अभ्यासोऽनन्यपरपुनश्श्रवणम् । यथा उक्तवाक्यस्य नवधा श्रवणम् । अर्थवादो 'येनाश्रुतं श्रुतम्' इत्यादिप्राशस्त्यबोधकं वाक्यम् अद्वैतब्रह्माप्तिसाधनश्रवणादौ प्रवर्तकत्वादद्वैत ब्रह्मतात्पर्यग्राहकम् । यद्य · 1 बाधकाज्ञान इति पा. 2 लक्षणं इति-पा. 455 ,
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७५
दिखावट