पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाघोद्धारः 449 गृहीतमेवेति कथं नानुवादकत्वम्, प्रकारवैलक्षण्याभावात् । न चैकशाखा स्थावधिवाक्यैकार्थशाखान्तरस्थविधिवाक्यस्य पुरुषा- न्तरं प्रतीव येन पुंसा वादिविप्रतिपत्त्यादिना घटादिसत्ता प्रत्य- क्षेण न निर्णीता तं प्रत्यर्थवत्वेन नानुवादकत्वमिति वाच्यम्; ग्राहित्वान्नानुवादकत्वमिति वाच्यम् ; घटत्वाद्यवच्छेदेन प्रत्यक्षाभासस्येव परमाणुत्वाद्यवच्छेदेन लिङ्गाभासादेस्सत्त्वग्राहकत्वात् । न हि परमाण्वादि सदिति लोको न जानाति । मन्मते सर्वप्रत्ययवेद्य इति मण्डनोक्तेः 'अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः । अक्ष्यादीनाम्' इति वार्तिकोक्तेश्च धीमात्रस्य स्वविषयब्रह्मसत्त्वावगाहित्वस्वीकाराच्च । एक- शाखास्थेति । एकवेदीयैकशाखास्थेत्यर्थः । एकार्थेति । समानार्थेत्यर्थः । एकवेदीयासु नानाशाखासु पठ्यमानानां 'अग्निहोत्रं जुहोति' इत्यादीनां समानार्थकवाक्यानां पुरुषभेदं प्रति प्रवृत्तत्वाद्यथा नानुवादकता, तथा विश्वसत्त्वग्राहकयोः प्रत्यक्ष श्रुत्योरित्यर्थः । पुनः श्रुतिरूपाभ्यासादिभि- इशाख।भेदेनोक्तानां कर्मणां भेद इति प्राप्ते, अभ्यासादीनां स्ववाक्योक्त- कर्मपरत्वमात्रज्ञापकत्वाद्विहितविधानायोगादेव कर्मभेदकत्वम् । भिन्न- शाखास्थवाक्यानां तु स्वस्वाध्येतृपुरुषान्प्रति एकस्यैव कर्मणोऽज्ञात- ज्ञाप्यत्वरूपविधेयत्वसम्भवान्न तद्बोध्यकर्मभेदः । एकवेदस्था एका शाखा अध्येतव्येति हि शास्त्रार्थः । 'अध्वर्यु वृर्णाते' इत्यादावेकत्व- स्येव 'स्वाध्यायोऽध्येतव्यः' इत्यादावपि स्वीयत्त्वैकत्वयोर्विनियोग- दशायां विवक्षितत्वात् । 'वेदानधीत्य वेदौ वा' इति वचनानुरोधेन वेदान्तरस्थशाखान्तराध्ययनस्यापि शास्त्रार्थत्वादेकवेदस्थत्वनिवेशः । अत एव वेदभेदेऽपि पुरुषाभेदादेकत्रैव वाक्ये कर्मोत्पत्तिरपरत्र गुणाद्यर्थ श्रवणम् । अतएव च एकस्मिन्कर्माणि विरुद्धानामङ्गानां नानाशाखा- गतानां विकल्पः । स च तत्तत्पुरुषभेदेन न व्यवस्थितः, तेषां प्रकरणा- 1 कर्मभेदस्य.