पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

450 अद्वैतसिद्धिण्याख्यायां गुरुचन्द्रिकाया [प्रथमः एवं सत्यनुवादस्थलस्यैवाभावप्रसङ्गात् । न च सर्वाविवादस्थल- मेवोदाहरणम्, सर्वाविवादस्य निश्चेतुमशक्यत्वात् । पुरोवादपूर्व- कत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावान्न शाखान्तरस्थ - वाक्यानुवादकत्वप्रसङ्गः । यत्तु – बृहदारण्यकभाष्ये देहभिन्ना- त्मबोधिकाया 'अस्तीत्येवोपलब्धव्य' इत्यादिश्रुतेः प्रत्यक्षप्राप्ता- नुवादित्वमाशङ्कय वादिविप्रतिपत्तिदर्शनादित्यादिना तत्परि- हृतम् । तथाच प्रत्यक्षसिद्धसत्त्वग्राहकत्वेऽपि वादिविप्रतिपत्ति- निरासार्थकत्वेन नानुवादकत्वं प्रकृतेऽपीत्युक्तम् ; तदयुक्तम् ; भाष्यार्थानवबोधात् । तथाहि तत्र वादिविप्रतिपत्तिदर्शनेन देह- दिना शुद्धऋत्वर्थत्वावगत्याऽध्ये तृतत्तत्पुरुषार्थत्वाभावात् । अविरुद्धानां तु समुच्चयः । ‘बह्वल्पं वा स्वशाखोक्तं ग्राह्यम्' इत्यादिकं चानुकल्प- विधानार्थमिति द्वितीयस्यान्त्याधिकरणे स्थितम् । सर्वाविवादस्येति । न च ‘अग्निर्हिमस्य भेषजंम्, अस्यामोषधयो जायन्ते' इत्यादिवाक्यार्थे सर्वाविवाद इति वाच्यम्; अमेर्हिमनिवृत्तिजनकत्वरूपे वाक्यार्थे स्वभाववाद यदृच्छावादयोर्विवादात् अवयव्यनङ्गीकारमते ओषधिरूप- स्थूलद्रव्योत्पत्तिरूपेऽर्थेऽपि विवादाच्च । अत्रायं पुरोवाद इत्यस्येति । अत्र तद्वेदीयैकशाखाध्येतृपुरुषे अयमग्निहोत्रं जुहोतीत्यादितद्वेदीय- शाखान्तरीयो वादो वाक्यं पुरः पूर्वमा महोत्रादेरज्ञातस्य ज्ञापक इत्य- स्यार्थस्येत्यर्थः । यदि हि तद्वेदीयैकशाखावाक्यं तद्वेदीयशाखान्तरवाक्या- ध्येतारं प्रति ज्ञापकं स्यात् तदा ज्ञातज्ञापकत्वेनानुवादकं स्यात् । न चैबमस्तीति भावः । यत्तु–“ वेदद्रष्टृप्रथमव्यक्तयपेक्षया पुरोवाद्रस्य सम्भ- वात् सादिप्रत्यक्षस्यानादिवेदापेक्षया पुरोवादत्वासम्भवाच्च प्रतिपत्तृव्यव- स्थया नानुवादकत्वं युक्तम्" इति, तन्न युक्तम् ; प्रथमं वेदद्रष्टारं प्रति तद्वे- दीयश।खान्तरवाक्यस्यानुवादकत्व वत्सत्त्वप्रत्यक्षवन्तं प्रति सत्त्वश्रुतेरनुवा- दकत्वानपायात् प्रत्यक्षस्याप्यनादित्वेन वेदात्पुरोवादत्वसम्भवात् ; ,