पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

448 अद्वैतसिद्धिव्याख्यायां गुरुचान्द्रकायां [ प्रथमः तदवच्छेदेन विधेयस्याप्राप्तत्वेन तत्र नानुवादकत्वं युक्तम्, इह तु विश्वत्वन्नाम नैको धर्मोस्ति । किन्तु विश्वशब्दस्सर्वनामत्वा- तेन तेन रूपेण घटपटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्त्वं 1 शाब्दानु- वाक्येऽपि सत्यत्वविशिष्टजगत्त्रष्टृत्वस्यशे सिद्धिरित्यपास्तम् । सर्वनाम त्वादिति । 'बुद्धिविषयविशिष्ट सर्वशक्तत्वादित्यर्थः । तथाच यथा तथादेर्बुद्धिविषयविशिष्टःशक्तत्वेऽपि घटत्वादिविशेषरूपेण भवजनकत्वम् अन्यथा तेन रूपेण संशयनिवृत्त्याद्यनुपपत्ते तथा विश्वादिपदानगीति भावः । एतेन जगदादिशब्दवद्विश्वशब्दस्य सर्व- वृत्तिधर्मप्रकारेण बोधकत्वमित्यपास्तम् । यथा हि सर्वशब्दस्य पुत्रत्व- पशुत्वादिविशेषरूपेण बोधकत्वम्, अतएव सर्वेभ्यो दर्शपूर्ण नावित्या- दिना तादृशरूपावच्छिन्नसाधनताबोधनात्तादृशरूपेणैव कामनया दर्श- पूर्णमासानुष्ठानं विधियोध्यतावच्छेदकरूपणैव हि कामनयाऽनुष्ठितं कर्म फलाय भवति । अत एव येनयेन रूपेण पुत्रत्वादिना कर्मान्तर- फलमुपदिष्टम्, तेनतेन रूपणैवोपहितं दर्शपूर्णमासयोः फलम् न त्वन्य- रूपेणेति सिद्धान्तः । यत्तु – हिंसात्वावच्छेदेन न किञ्चिद्विषीयते किन्तु भूतेषु हिंसाभाव इति हिंसात्वानुगमोक्तिर्व्यर्था' इति, तत्तुच्छम् ; पृथिवीत्वावच्छेदेन इतरभिन्नत्वस्येव भूतहिंसात्वावच्छेदेन बलवदनिष्ट- साघनत्वस्याप्राप्तत्वेन विधेयत्वात् । भूतेषु हिंसाभावो विषयत इति तु स्वमौढ्यप्रकटनम् अज्ञातज्ञाप्यत्वरूपविधेयत्वस्य भूतहिंसानिष्ठे बल- वदनिष्टसाधनत्व एव वाच्यत्वात् भूतनिष्ठस्य हिंसाभावस्य मानान्तर - ज्ञातत्वात् भूतोद्देशेन हिंसाभावविधायकत्वस्योक्तवाक्ये केनाप्य- स्वीकाराच्च । तेषु च प्रत्येकमिति । न च प्रत्यक्षेण घटादिषु घटत्वा- दिना सत्त्वे गृहीतेऽपि परमाण्वादौ तत्त्वेन सत्त्वं न गृहीतमित्यगृहीत- , 1 विधि. , , ,