पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धारः यत्र च स्तुत्यादिपरत्वं नास्ति, तत्रापि प्रत्यक्षसिद्धानुवादकतया 'अग्रिहिमस्य भेषजम्' इत्यादिवाक्यवन तत्परत्वम् | न च त्व- न्मते सर्वत्र ब्रह्म सत्त्वस्यैव स्फुरणात्तदतिरिक्तस्य कालत्रयाबाध्य - त्वरूपस्य घटादिसच्चस्य प्रत्यक्षेण प्राप्तेस्तद्वोधकत्वेन श्रुतेर्नानु- वादकत्वमिति वाच्यम्; इतरसत्त्वबाधपुरस्सरत्वा ब्रह्मसवस्फुर- णाभ्युपगमस्य तत्रैव सत्यादिपदप्रवृत्तिस्वीकारेण तदतिरिक्त- विश्वसत्यत्वस्य शाब्दबोधाविषयत्वात्तदादायानुवादकत्वापरिहा- हारात् । अथ 'पृथिवी इतरभिन्ना, न हिंस्यात्सर्वा भूतानी' त्यादौ घटादावेकदेशे प्रत्यक्षेण, ब्राह्मणादावेकदेशे वाक्यान्तरेण, विधेयसिद्धावपि सर्वत्रासिद्धत्वाद्यथा नानुवादकत्वं, तथा विश्व - मात्रसत्यत्वस्य प्रत्यक्षेणाप्राप्तत्वान्नानुवादकत्वमिति मन्यसे, मैवम् ; दृष्टान्ते हि पृथिवीत्वं हिंसात्वं चैकोऽनुगतो धर्म इति 1 प्रयोगात् । ननूक्तवाक्येषु स्तुत्यादिपरत्वेऽपि विश्वसत्यताया देवताधि- करणन्यायन सिद्धिरस्तु, वाक्यान्तरस्य च विश्वसत्यताबोधकस्य स्तुत्या- दिपरत्वाभावस्य सम्भावितत्वात्तत्सिद्धिरस्तु तत्राह – यत्र चेति । तत्रापीत्यपिना उक्तवाक्येष्विति समुच्चीयते । अनुवादकतयेत्युप- लक्षणम् । अद्वैत श्रुत्यनुमानादिविरुद्धार्थकतयेत्यपि बोध्यम् । तत्परत्वमिति । तत्प्रमापकत्वमित्यर्थः । मानान्तरेण प्राप्ते बाधिते चान्यपरत्वस्य देवताधिकरणनापि प्रमापक त्वाव्यवस्थापनात्, अप्राप्त एव च श्रुतितात्पर्यान्न तत्सिद्धिरिति भावः । एतेन यद्यपीशकृतजगदनु - वादेन न सत्यत्वविधिसम्भवति, अनुमान मात्रेण जगत ईशकृतत्वा- सिद्ध्याऽनुवादायोगात्तस्यापि विधाने वाक्यभेदापत्तिः ; तथापि देवता- धिकरणन्यायात्सत्यकामादिवाक्यात्सत्यत्व विशिष्टेशस्येव यच्चिकेतेत्यादि- ' देवताधिकरणंदेवताप्रमापक. द्वेत. 447 3 अनुवाद. -