पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

446 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः मर्थः । न तु जगत्सत्यत्वं जगत्सर्जनगतसत्यत्वं वा । नुपयोगात् । मन्मते तु – यतः क्रान्तमतीतं सर्वं दृष्टवान् यतश्च मनीषी मनसा ईष्टे ऊहापोहकुशलः, यतश्च पूर्वसृष्टविरुद्धमिच्छतामसु राणां परिभवसमर्थः, यतश्च स्वयमन्यनैरपक्ष्येण पूर्वसृष्टप्रकारेण जगद्भा- वनसमर्थः, ततो हेतोर्याथातथ्येन पूर्वं यथा तथा व्यदधादित्यर्थ उपपद्यततराम् । वस्तुतो न प्रत्ययस्स्वार्थो वैयर्थ्यात्, किन्तु यथा- तथाशब्दस्य यादृशतादृशार्थकतया तद्भावार्थकः पञ्चम्यर्थस्तसिश्च ल्यव्लोपे, तथाच यादृश तादृशभावं प्रतिसन्धाय व्यदधादित्यर्थः 1 त्वन्मते तु प्रत्ययोऽपि व्यर्थ । यथातथार्थानित्यादिवाक्येऽपि त्वन्मते यथाशब्दो व्यर्थः, तथा शब्दम्यापि सत्यार्थकत्वात् । अतएव तथागत शब्दस्य बौद्धबोधकस्य सत्यज्ञानार्थकत्वममरटीकादावुक्तम् । धाता यथापूर्वमकल्पयत्' इति श्रुत्येकवाक्यतया मदीयार्थ एव युक्तः । किञ्च यथाशब्दस्य योग्यतावीप्सासादृश्यपदार्थानतिवृत्त्यर्थकत्वेन शाब्दिकोक्त- त्वात् प्रकृते च अनतिकमरूपपदार्थानतिवृत्त्यर्थकत्वसम्भवात् त्वन्मत- रीत्या तादात्म्येन तथा अनति क्रमोक्तौ तथ्यतोऽर्थानित्यनेनैव विवक्षि तार्थसिद्ध्या यथेत्यस्य वैयर्थ्यात् । उपादानतया तथ्यानतिक्रमोक्तया सत्योपादानकान्सर्वानर्थान् व्यदधादित्यर्थलाभेन उपादानसत्यत्वाज्जग- त्सत्यं भाति न तु वस्तुतस्सत्यमिति श्रुतितात्पर्यलाभात्त्वन्मतविरुद्ध- मेवेदं वाक्यभित्याशयेनाह -- न जगत्सत्यत्वमिति | न च त्वन्मतेऽपि तथ्यत इत्यनेनैव तथ्यहेतुलाभसम्भवेन याथेत व्यर्थमिति वाच्यम्; निमित्तहेतु·ात्रभ्रान्निनिरानाय कार्यतादात्म्याश्रयहेतुलाभार्थकत्वेन तद्- वैयर्थ्यात् । यत्तु परिभावयतीति परिभूरिति व्याख्यानं, तत्परिभवतेस्स- कर्मकत्वाज्ञानात् । सकर्मकत्वं तु स्पष्टम् । 'परिभूतस्स नागरैः' इत्यादि- 1 तथ्यानति. 2 उपादानयाथा.