पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीरच्छेद:] आगमबाधोद्धारः 445 आगच्छतीत्यध्याहारः; उपसर्गश्रुतेः। यो महो महान्, शूरो विक्रा- न्तः सनात्पुराणः अनीलोऽनीडः, नीडस्याकर्ता । न हीन्द्रो अग्नि- वत्कुत्रचिदपि यज्ञे वृक्षे निकेतनं करोति । एवं सुपर्ण इत्यादि- रूपकेण इन्द्रमाह । स इन्द्र इदमिदानीं कर्तव्यमिति यच्चिकेत जानाति तत्सत्यमित्सत्यमेव । न मोघं न व्यर्थम् । स स्पार्ह स्पृहणीयं वसु निवासार्ह धनं जेता जयति शत्रुभ्यस्सकाशात् । उत अपि दाता ददाति च स्तोतृभ्यः | जेता दातेति तृजन्तेन 'न लोक' इत्यादिना षष्ठीप्रतिषेधः । एवमेवान्यदपि सत्यत्व- प्रतिपादकमुन्नेयम् । 'याथातथ्यतोऽर्थान् व्यदधात्' इत्यपि वाक्यं न प्रपञ्चसत्यत्वे प्रमाणम् । तस्य पूर्वसृष्टप्रकारेण सर्जन- आगच्छतीति । न चाभिव्याप्तयर्थकत्वसम्भवादध्याहारो न युक्त इति वाच्यम् ; अभिव्याप्तेः कर्मालाभेन साकाङ्क्षतापत्तेः । न च यच्चिकेत तदभिव्याप्य तत्सत्यमेव ज्ञेयं सर्वमित्यर्थ इति वाच्यम्; यद्योगप्राथम्य- बलादेरभित्र्याप्तिलाभात् “न तज्जलं यन्न सुचारुपङ्कजम्" इत्यादिव- दाशब्दानपेश्नणान् । स्पार्हं वसु अभिव्याप्य जेता दातेत्यर्थस्तु न सम्भवति, आसत्त्यभावात् । याथातथ्यतोऽर्थान्व्यदधादिति । यद्यपि " याथातथ्यतोऽर्थान्" इतीशावास्योपनिषदि पठ्यते, दूष्यपर- ग्रन्थेऽपि तथैव पाठो दृश्यते, तथापि श्रुत्यन्तरस्थयथातथार्थानित्यादिक- मेवाविशेषाद्गहीतम् । पूर्वसृष्टेति । ननु “ यथार्थं तु यथातथम् " इत्यव्ययवर्गेऽमरोक्तेर्याथातथ्यशब्दस्य स्वार्थिकतद्धितान्तस्य सत्यार्थ- कत्वमेवोचितमिति चेत्, न; तथ्यशब्दस्यपि 'सत्यार्थकत्वेन याथेत्यस्य त्वन्मते वैयर्थ्यापत्तिः कविर्मनीषी परिभूस्स्वयंभू : " इति पूर्वभाग स्थकव्यादिपदानां कान्तदर्शित्वादिविशिष्टरूपार्थानां त्वन्मते वाक्यार्था- 1 सत्यथिकत्व. 2 यपत्तेः. -