पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

442 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां हेतवोऽभीष्टसिद्धयर्थ सम्यञ्चो बहवश्व नः । अल्पाः परस्य दुष्टात्यत्र स्पष्टमुदीरितम् || अभीष्टसिद्धावनुकूलतकंबलाबलं चात्र परीक्ष्य यत्नात् । प्रवक्ष्यते दोषगणः परेषां न खेदनीयन्तु मनोऽधुनैव ॥ इत्यतसिद्धी विश्वमिथ्यान्चे विशेषतोऽनुमानानि. [प्रथमः अथ विश्वमिथ्यात्वस्यागमबाघोद्धारः. - नन्वस्तु शब्द बाधः, तथाहि – “विश्वं सत्यं, यच्चिकेत सत्यमित्तन्न मोघं, याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्य- स्समाभ्यः " इत्यादिश्रुतिभिः, असत्यमप्रतिष्ठं ते जगदाहुरनी- श्वरम्' इत्यादिस्मृतिभिः, 'नाभाव उपलब्धेः, वैधर्म्याच न स्वमादिवत्' इत्यादिसूत्रैश्च विश्वस्य सत्यत्वप्रतिपादनादिति चेन्न ; श्रुतेस्तत्परत्वाभावात् । तथा हि, “विश्वं सत्यम्मघवाना युवोरिदापश्च न प्रमिणन्ति व्रतं वाम् | अच्छेन्द्रा ब्रह्मणस्पती हविर्नो अन्नं युजेव वाजिना जिगातम्" इति ऋक्संहिताद्विती- कानुमानमात्रलोपापत्तेः, नव्यैरपि व्याप्तिग्राहकाभावसहकृतम्यैव तादृश- संशयस्य तद्विरोधित्वस्वीकारात् प्रकृते चानुकूलतर्काणां भूयसां वक्ष्य- माणत्वात् न स विरोधीति भावः || तर्कैस्सारस्वतै रत्नैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय विशेषा सत्यतानुमा || इति विश्वमिथ्यात्वे विशेषतोनुमानानि. · जगदाहुरिति । सत्यभिन्नं जगदिति मतभासुरत्वेनोक्तम् ।