परिच्छेद-] विशेषतोऽनुमानानि वाच्यम्; आत्मा- शुक्तिरूप्यवदित्येव । न च स्वरूपेणात्यन्ताभावप्रतियोगित्वेऽ- त्यन्तासवापातः, तद्वैलक्षण्यप्रयोजकाभावादिति उत्पत्तिनिवृत्त्योरन्यतरप्रतियोगित्वेन परिहारात् । आत्मत्वा- वच्छिन्नधर्मिको भेदो न परमार्थसत्प्रतियोगिकः, प्रतियोगित्वात् शुक्तिरूप्य प्रतियोगिकभेदवत् । न च घटपट- संयोगे व्यभिचारः हेतुमत्तया निर्णीते अङ्कुरादाविव साध्य- सन्देहस्यादोषत्वात् । एवमन्येऽपि प्रयोगा यथोचितमारच- नीया विपश्चिद्भिरिति दिक् ।। , 441 द्रव्यान्यदिति न देयमेवेति भावः । इत्येवेति । न च शुक्तिरूप्या- त्यन्ताभावस्य शुक्तय वच्छिन्नचिदात्मकतदधिष्ठानरूपत्वात्तस्य च घटा- दावत्यन्ताभावप्रतीतेनं केवलान्वयित्वमिति वाच्यम्; अवच्छिन्नचितोऽधि- ष्ठानत्वेन शुद्धचितोऽप्यधिष्ठानत्वात् तस्यापि तदत्यन्ताभाववत्वेन उक्तसा- ध्यम्य शुक्तिरूप्ये सत्त्वात् । शुक्तिरूप्यादेर्मूला विद्योपादानकत्वपक्षे उक्तगङ्काविरहाच्च । स्वरूपेणेति । उक्तरूपेणेति शेषः । तद्वैलक्षण्येति । अत्यन्ता सद्वैलक्षण्येत्यर्थः । परिहारात् । असद्वैलक्षण्यसिद्धेः, निवृत्ति. प्रतियोगित्वमात्रस्यासद्वैलक्षण्य साधकत्व भावाद्वैतमते पञ्चमप्रकाराविद्या- निवृत्तेस्तदसिद्धिः उत्पत्तिप्रतियोगित्वमनादौ न तत्साधकम् । अतोऽन्य- तरविशेषः । आत्माप्रतियोगित्वादिति । न चाप्रतियोगित्वमात्रस्य ब्रह्मनिष्ठम्य साधकत्वसम्भवादात्मेति व्यर्थमितिवाच्यम्; ब्रह्मणो दृश्या- भावरूपत्वेन सप्रतियोगिकत्वात् | तन्मिथ्यात्वम्य पूर्वमसिद्धत्वात्परं प्रति दृष्टान्तत्वासम्भवात् ' म्वनिष्ठप्रतियोगित्वानिरूपकत्व पम्बन्धेन आत्मन एव हेतुत्वे तात्पर्यसम्भवाच्च । अदोषत्वादिति | साध्याभाववत्त्वांशे संशयात्मकव्यभिचारज्ञानस्य व्याप्तिधीविरोधित्वे सन्दिग्धसाध्यपक्ष- 1 लक्षण्या ? पर प्रति तस्य हेतु व सम्भव.न. पा.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६१
दिखावट