पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आगमबाधोद्धारः 443 , याष्टकवाक्यस्यायमर्थः— हे इन्द्राब्रह्मणस्पती ! मघवाना मघ- वानौ मघमिति धननाम, धनवन्तौ मखवन्ताविति वा, विश्वं सर्व सत्यं कर्म सद्भूतत्वात् फलस्यावश्यं भावित्वाद्वा, तादृशं कर्म युवोरित् युवयोः इत् इत्थमवधारणे वा । युवामेवोद्दिश्य सर्वाणि कर्माणि अनुष्ठेयानीत्यर्थः । आपो व्यापनशीला देवताः, चनेत्येतत्पदद्वयसमुदायः ऐकपद्यन्त्वध्यापकसम्प्रदायसिद्धम् । वां युवयोव्रतं सङ्कल्पं कर्म वा न प्रमिणन्ति न हिंसन्ति । 'मीङ् हिंसायाम्' ऋय्यादिकः | किन्त्वनुमोदन्त इति यावत्, नोऽ- स्माकं हविर्दध्यादिकमन्नं च पुरोडाशादिकं च अच्छ अभिलक्ष्य वाजिना वेगवन्तावश्वाविव युजा युक्तौ सन्तौ जिगातं देवयजन- मागच्छतम् । (जिगातिर्गतिकर्मा, जौहोत्यादिकः) अन्नं घासं प्रति अश्वाविवेति वा । यद्वा हे इन्द्राब्रह्मणस्पती ! विश्वं सत्वेन अतो जगत्सत्यमिति शिष्टमतमित्यभिमानः । कर्म सद्भूतत्वादिति । “यो वै धर्मस्सत्यं वै तत्तम्माद्धर्मं वदन्तमाहुम्सत्यं वदति" इति श्रुतौ धर्मस्य सत्यशब्दार्थत्वोक्तेः “ऋतं पिबन्तौ " इत्यादिश्रुतौ सत्य- शब्द समानार्थऋतशब्देन कमफलमात्रोक्तेश्च सत्यशब्देन प्रकृते धर्मरूपं कर्मोक्तम् । सतो ब्रह्मणां भव इति व्युत्पत्तरिति भावः । अद्वैतश्रुते- रिव विश्वं सत्यमित्यादिश्रुतेरपि स्वार्थतात्पर्य ग्राहकमस्ति । "आपश्च न प्रमिणन्ति " इत्यस्य वाक्यशेषस्य व्यापनशीला देवा अपि प्रमाविष- यी कुर्वन्तीत्यर्थकत्वेन विश्वसत्यतायाः प्रमाविषयत्व रूपोपपत्तिबो त्रकत्वा- दिति पश्चात्परो वक्ष्यति, तदपि निरवकाशमित्याशयेन चनेत्येतत्पदद्वय- तया व्याचष्टे –चनेत्येतदिति । यत्तु चनशब्दस्याखण्ड स्याव्ययेषु पाठादेकपदत्वेन माधवीयभाष्ये वाक्यान्तरे व्याख्यातत्वात्, "नेह नानास्ति किञ्चिन " इत्यादौ त्वयापि तथा स्वीकाराच, पदद्वयत्वेन व्याख्या न युक्तेति, तत्तुच्छम् ; क्वचिदेकपदत्वेन व्याख्यातत्वेऽपि सर्वत्र परिच्छेदः]