पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

438 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां भावः, एतत्तन्तुनिष्ठः एतत्पटप्रतियोगिकात्यन्ताभावत्वात्, सम्बन्धान्त रावच्छिन्नैतत्पटात्यन्ताभाववदिति विशिष्यानुमानम् । अव्याप्यवृत्तित्वानधिकरणत्वे सति उक्तपक्षतावच्छेदकवत् स्व- समानाधिकरणात्यन्ताभावप्रतियोगि, अनात्मत्वात्, संयोग- वत् । न च विश्वात्यन्ताभावे व्यभिचारः, तस्य अधिक- रणस्वरूपत्वे अनात्मत्वहेतोरेवाभावात्, अतिरिक्तत्वे तस्य [ प्रथमः एतत्पटत्वान्यधर्मान वच्छिन्न प्रतियोगिता के त्यस्याप्युपलक्षणम् । एतत्तन्तु- नाशजन्यतत्पटनाशे व्यभिचाराद्धेतावत्यन्तेति । नाशानाश्य पटव्यक्ति- निवेशे तु तन्न देयम् । वस्तुतस्तु अत्यन्ताभावे वितरवैयर्थ्यम्, तत्तन्तुत्वात्यन्ताभावम्यापि पक्षसमत्वेन तत्राव्यभिचारात् । तथाचा- त्यन्ताभावत्वमेको हेतुः | तन्तुनाशानाश्यपटव्यक्तयभावत्वमपरो बोध्यः | अव्याप्यवृत्तित्वमादाय सिद्धसाधनादिवारणाय सत्यन्तम् । उक्तेति । ब्रह्मप्रमान्याबाध्येत्यादिपरकीयाद्यानुमानीयेत्यर्थः । स्वसमानाधिकर- णेति । सामानाधिकरण्यं प्रतियोगिता चेत्युभयसम्बन्धेन अत्यन्ताभाबस्सा- ध्यः, उक्तपक्षतावच्छेदकसमानाधि' करणप्रतियोगितावच्छेदकत्वं स्वाश्र- यनिष्ठाधिकरण तानिरूपकतावच्छेदकत्वं चेत्युभयसम्बन्धेनात्यन्ताभावस्सा ध्यमिति तु पर्यवसितम् । तेन स्वपदार्थस्य पक्षदृष्टान्तोभयसाधारण- स्याभावेऽपि न बाधसाध्यवैकल्यादि, न वा उभयाभावादिप्रतियोगितामा- दाय सिद्धसाघनमिति ध्येयम् । व्यभिचार इति । तस्य ब्रह्मस्वरूपत्वे- नाधिकरणाप्रसिद्धया नोक्तसाध्यम् विश्वरूपेण तु हेतुसत्त्वमिति भाव । शुद्धब्रह्मणि व्यभिचारो विश्वाभावत्वोपहिते वा, नाद्यः ; तत्र हेत्वभावात् । नान्त्यः, तत्र साध्यसत्त्वादित्याशयेनाह - तस्येति । अभावादिति । एवंचाभावमात्रस्य ब्रह्मणि व्यभि- - 1 तादृशनास. 2 अत्यन्ताभावत्वेतर करणधर्मे स्वप्रति. ,