पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः 437 - तन्तुनिष्ठ: ; एतत्पटानाद्यभावत्वात् एतत्पटान्योन्याभाववत् । तन्तुनाशजन्यपटनाशस्य कदापि तन्तुवृत्तिता नास्तीति तत्र व्यभिचारवारणायानादिपदम् | यस्य पटस्याश्रयविभागेन नाश- स्तदत्यन्ताभावस्य पक्षत्वेत्वनादिपदमनादेयमेव । अत्र चैत- त्पटप्रतियोगिकात्यन्ताभावत्वावच्छिन्नस्य पक्षीकरणान सम्ब न्धान्तरेणात्यन्ताभावमादाय अंशतस्सिद्धसाधनम् ; पक्षतावच्छे- दक्रावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् । समवायसम्बन्धावच्छिन्नो व्यधिकरणधर्मान वच्छिन्नश्च य एतत्पटात्यन्ताभावस्स एव वा पक्षः । तन्तुशब्देन च पटोपादान कारणमुक्तम् । तत्र च प्राग- भावस्य सत्त्वान्न तेन व्यभिचारः । कार्यकारणयोरभेदेन सिद्ध- साधनादिदूषणानि प्रागेव तत्त्वप्रदीपिकानुमानोपन्यासे निरा- कृतानि । यद्वा समवायसम्बन्धावच्छिन्नोऽयमेतत्पटात्यन्ता- व्यभिचाराद्धेतौ -- एतदिति । पटेति । व्यक्तिविशेषपरिचायकम्, न तु हेतौ प्रविष्टम् । पक्षत्वे विति । तस्य पक्षत्वे हेतावपि तपट एव निवेश्य:; अन्यथा म्वरूपासिद्धेः । तथाच अनादीति व्यर्थत्वान्न देयमिति भावः । उद्देश्यत्वादिति । न चैवं पक्षे एतदिति व्यर्थमिति वाच्यम्; तद्व्यक्तिप्रतियोगि कात्यन्ताभावत्वेनै- वाम्मिन् कल्पे पक्षत्वेन पटत्वेन निवेशाभावात् । व्यधिकरणेति । एतस्पटत्वान्येत्यर्थः । तेनोभयत्वाद्यवच्छिन्नात्यन्ताभावमादाय न सिद्ध- साधनम् ! ननु तत्पटप्रागभावः तत्तन्त्ववच्छिन्नचैतन्याविद्ययोरेब वर्ततेन तु तत्तन्तौ, सिद्धान्ते तस्य तत्पटानुपादानत्वादिति तत्र तत्तन्तुनिष्ठत्वाभावाद्व्यभिचारः, तत्राह – तन्तुशब्देनेति । तत्तन्तु- शब्देनेत्यर्थः । पटोपादानेति तत्पटोपादानेत्यर्थः । प्रागेवेति । चित्सु - खाचार्यास्त्वित्यादिग्रन्थ इति शेषः । समवायान्यसम्बन्धेन तत्पटा- त्यन्ताभावे सिद्धसाधनादयमिति तत्परिचायकमाह - समवायेति । विशेषतोऽनुमानानि